________________
१६२
[ श्रीवीतरागस्तोत्रे स्तुतिः सद्भूतवस्तुतत्त्वप्रकटनेन यद्यपि यथार्था, तथापि केषाञ्चिन्महामोहोपहतमतीनां मिथ्येयमिति चेन्मतिमुत्पादयति, तदा तन्मतेन वयं दृष्टिरागरक्ता इत्यप्रमाणम् , अस्मन्मतेन च ते मत्सरिणः पूर्वव्युद्राहिता द्विष्टा इत्यप्रमाणम् , केवलं कुलजाः क्षमावन्तः पक्षद्वयसम्मताः प्रेक्षापूर्वकारिणः सकलशास्त्रार्थरहस्यनिःस्यन्दनिष्णातमतयस्तुलासमानाः सभासदः-सभ्या एवात्रार्थे प्रमाणम् । मध्यस्थपरीक्षया हि जात्यकाञ्चनात् युक्तिकनकं पृथग् भवत्येव । महीयसामपि महान् महनीयो महात्मनाम् । अहो ! मे स्तुवतः स्वामी स्तुतेर्गोचरमागमत् ॥८॥
मानवने आश्चर्य उत्पन्न करे एवा परस्पर विरुद्ध जणाता गुणोने धारण करनार प्रभुनी अद्भुत शक्तिने वर्णवता आचार्य आ स्तुतिवडे पोतानी जातने धन्य माने छे ! अहो ! आनन्दनी वात छे के-मोटाथी पण मोटा अने महात्माओने पण पूजनीय, एका स्वामी आजे मारी स्तुतिना विषयने प्राप्त थया छे. (८)
अव० मही०-अहो इत्याश्चर्य ! स्तुवतो मे मम महत्तरेऽभ्योपि महानुभावः महात्मनामिन्द्रादीनां महनीय:पूज्य स्वामी स्तुतेर्गोचरं विषयमागमत् प्राप्तः ॥८॥
इति एकादशप्रकाशस्यावचूर्णिः । एवं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org