________________
एकादशः प्रकाशः }
हे नाथ ! हरिहरादि अन्य देवोने विषे सर्व प्रकारे सर्व दोषो रहेला छे अने आपने विषे सर्व प्रकारे सर्व गुणो रहेला छे. आपनी आ स्तुति जो मिथ्या होय तो सभासदो प्रमाणभूत छे ! अर्थात्, आ वात जो असत्य होय तो ते सभासदोज बोले. (७)
अपरं च
अव० सर्वे हे वीतराग ! सर्वे दोषाः सर्वात्मनाsन्येषु हरादिषु सन्ति, त्वयि पुनर्गुणाः सर्वे सर्वात्मना सन्ति । इयं स्तुतिस्तव चेद्यदि मिथ्याऽसत्या स्यात् तत्तर्हि सभासदासभ्याः प्रमाणम् । यद्यसत्यं स्यात्तदा त एव वदन्तु ॥ ७ ॥
वि०-हे भुवनाद्भुतचरित्रपात्र ! भगवन् ! सर्वेऽप्येवंप्रकारा भावा अन्येषु त्वद्विधादपरेषु कुतीर्थिकदैवतेषु ये दोषास्त एवं त्वयि सर्वात्मना गुणाः । तथाहि-यैव क्षमा परैः परिभवहेतुत्वेन कापुरुषचेष्टितमियमिति दोषतया प्रत्युक्ता सैव जगद्धसनरक्षणक्षमपराक्रमेणापि त्वया दुर्द्धरक्रोधयोधविध्वंसनावन्ध्यपहरणमिदमिति सविशेषमाहता। यैव च निर्ग्रन्थता परैर्भिक्षुकवृत्तिरियमिति त्रपाहेतुत्वेन तिरस्कृता सैव निःस्पृहशिरोमणिना त्वया इयमेव सङ्गत्यागस्य मूलकारणमिति सादरं पुरस्कृता। यदेव चोपकार्यकारिषु प्रसादाप्रसादाकरणमगुणज्ञत्वमिदमिति परैर्दूरादपास्तम् , तदेव त्वया इदमेव वीतरागत्वस्य मूलबीजमिति सुतरामुररीकृतम् । एवं य एवान्येषु दोषास्त एव त्वयि गुणतया परिणमन्ति । इयं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org