SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १६० [ श्रीवीतरागस्तोत्रे सर्व प्राणीओने विषे दयावाळा; एवा आपे भया. नकता अने मनोहरतारूपी बे गुणवडे मोटुं साम्राज्य मेळव्यं छे. (६) अव० रागा०-हे वीतराग ! त्वया रागादिषु नृशंसेन-निर्दयेन, सर्वात्मसु-सर्वजीवेषु, कृपालुना-दयावता, भीमाः-प्रतापादयः, कान्ताः-शमादयस्तें गुणा यस्य तेनोचैरतिशायि साम्राज्यं साधितं-स्वीकृतम् ॥ ६ ॥ वि०-हे त्रिभुवनपते ! त्वया साम्राज्यं धर्मचक्रवर्तित्वं साधित वशीकृतम् । किं विशिष्टेन ? भीमकान्तगुणेन, भीमा अधृष्यत्वहेतवः प्रतापपराक्रमादयः, कान्ताश्चाभिगम्यत्वहेतवः क्षमादयादयस्ते च ते गुणाश्च भीमकान्तगुणास्ते विद्यन्ते यस्य स तथा तेन । तानेव विषयविभागेन व्यनक्ति-किं विशिष्टेन त्वया ?, रागादिषु रागद्वेषमोहप्रभृतिषु नृशंसेन-निर्दयहृदयेन मुक्तिपथप्रतिपन्थित्वेन दण्डसाध्यत्वात्तेषाम् , तथा सर्वात्मसु सर्वसत्त्वेषु कृपालुना निष्कृत्रिमकरुणारसपेशलमनसा भवभयादितत्वेन तेषामनुकम्प्यत्वात् । एवं त्वया ऊच्चैः सर्वाद्भुतं साम्राज्यमर्जितम् । भवन्ति च सम्राजोऽपि भीमकान्तगुणाः । अपरं चसर्वे सर्वात्मनाऽन्येषु दोषास्त्वयि पुनर्गुणाः । स्तुतिस्तवेयं चेन्मिथ्या तत्प्रमाणं सभासदः॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003020
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
AuthorChandraprabhsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1949
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy