________________
एकादशः प्रकाशः]
१५९ अव० यद्दे०-हे नाथ ! यत्सुकृतं परैः सुगतादिभिः शरीरवितरणेनापि नोपार्जितम् , तदुपकारित्वलक्षणमुदासीनस्य मध्यस्थस्यापि तव पादपीठेऽलुठत्-आतत् । पादपीठ इत्यवज्ञादर्शनं तथाविधोग्रतपःक्षमादमादीनां प्रभौ सद्भावात् ॥५॥
वि०-हे विहितान्तरारातिप्रमाथ ! नाथ ! परैः सम्यक्सुकृतोपायपरिज्ञानवन्ध्यैर्बोधिसत्त्वादिभिरास्तां विविधतपोऽध्यात्मादिविधानेन, किन्तु देहस्यापि दानेन यत्सुकृतं सकलक्लेशजालसमूलोन्मूलनलक्षणं नार्जितं न स्वायत्तीकृतम्, तत्तव पादपीठे त्वच्चरणसरसिजोपान्ते स्वयमप्रार्थितमेव लुलोठ । यदि पुनस्तदर्थ तव सुगतादिभ्योऽपि महानुपक्रमो भविष्यतीत्याह-कथम्भूतस्य तव उदासीनस्य अपुनर्भवे भवे च तुल्यमनसः । श्रूयते हि-क्षुधाविधुरितशरीरयाः केशरिण्याः पुरः परमकारुणिकतया कृमिकुलाकुलं स्वकलेवरममुच्यत सुगतेन । न च सा पारमार्थिकी करुणा, अतस्तथाविधस्वदेहोपहारसाहसेनापि यत्तेषां सुकृतं दुरापम् , तत्तवाप्रार्थितमेवोपनतमित्यहो त्वन्महिमातिशयः ।
तथारागादिषु नृशंसेन सर्वात्मसु कृपालुना । भीमकान्तगुणेनोच्चैः साम्राज्यं साधितं त्वया ॥६॥
हे नाथ ! रागादिने विषे दया विनाना, अने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org