________________
१५८
[ श्रीवीतरागस्तोत्रे अव० दत्तं०-हे वीतराग ! त्वया किश्चिद् ग्रामग्रासादि कस्मैचित्सेवकाय न दत्तं-नार्पितम् , कुतश्चन किश्चिद्दण्डादि न गृहीतम् , तथापि ते प्रभुत्वमैश्वर्यमेतत्समवसरणादिलक्ष्मीदर्शनेन वचनातिगमतो विपश्चितां-विदुषां कला काऽप्यपूर्वा ॥४॥
वि०-इह हि लोके प्रभुत्वं तस्यैव भवति यस्य आशा आशङ्का वा स्यात् , तत्रायमिदं मह्यं दास्यतीत्याशा, अयमिदं मत्तो हठेन ग्रहीष्यतीत्याशङ्का । त्वया तु जगद्गुरो ! किञ्चिद्धनधान्यादिकं कस्मैचिदाश्रिताय न दत्तं निर्ग्रन्थत्वात् । तथा किञ्चन धनादिकं कुतश्चन कुतोऽपि हि वा नात्तं-न गृहीतं निःस्पृहत्वात् । तथाप्येवं सत्यपि तवास्मिन् जगति अप्रतिहतं प्रभुत्वम् । अत एव विपश्चितां भवद्विधानां काप्यनन्यसदृशी कला । विना हि लोके कलाकौशलमनुपकारिभिरनिग्रन्थपरैर्वा न जगति प्रभुत्वमुपलभ्यत इति ।
किञ्चयदेहस्यापि दानेन सुकृतं नार्जितं परैः । उदासीनस्य तन्नाथ!, पादपीठे तवालुठत् ॥५॥
हे नाथ ! देहना पण दानवडे बीजाओए जे सुकृत प्राप्त न कर्यु, ते सुकृत उदासीन भावे रहेला आपना पादपीठमां आळोट्युं छे. (५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org