________________
एकादशः प्रकाश: ]
१५७ षेण परपराभवेच्छारहितेनागसः पापाभीतभीतेन बिभ्यता बिभ्यता त्वया जगत्त्रयं सुरासुरनरलक्षणं जिग्ये आज्ञा ग्राहितमित्यर्थः । महतां भवदृशां चातुरी काऽप्यपूर्वा ॥३॥
वि०-किल यो हि यस्य देशस्याधिपति जयति स तस्य देशमपि जयतीति वक्तव्यमेव , अतः स्वामिस्त्वया त्रिभुवनैकमलं मोहमल्लमुन्मूल्य तद्भुज्यमानं जगत्रयं जिग्ये शिरसि शासनं निधाय सेवा कारितम् । किं विशिष्टेन सता ? सर्वथा मनोवाक्कायैर्निर्जिगीघेण-निःस्पृहेण । पुनः किं विशिष्टेन ? आगसः अपराधात् वाच्यताया इति यावत् , भीतभीतेन चकितचकितेन । यश्च निःस्पृहो भीरुश्च भवति स कथं जगन्ति जयति । भगवांश्च यत एव निःस्पृहः पापभीरुश्च तत एव जगद्विलक्षणैः स्वगुणैर्जगदजैषीत् । तस्मादहो महतां भुवनगुरूणां कापि लोकोत्तरा चातुरी दक्षता । विना हि चातुर्य कथं निःस्पृहैर्भीरुभिश्च भुवनं जीयत इति ।
अपरं चदत्तं न किञ्चित्कस्मैचिन्नात्तं किञ्चित्कुतश्चन । प्रभुत्वं ते तथाप्येतत् कला कापि विपश्चिताम्॥४॥
हे नाथ ! आपे कोईने कांई (राज्यादि ) आप्यु नथी, अने कोई पासेथी कांई (दंडादि) ली, नथी, तो पण आपनुं आ प्रभुत्व छे; तेथी एम लागे छे के कुशळपुरुषोनी कला कोई अद्भुत होय छे. (४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org