________________
१५६
[ श्रीवीतरागस्तोत्रे
निरस्तवानहो इत्याश्चर्ये, महात्मनां-महानुभावानाम् , महिमागुरुत्वम् , कोऽप्यपूर्वो लोकदुर्लभ:-प्राकृतदेवैरप्राप्यः ॥ २॥
वि०-हे भुवनमहनीय ! स्वामिन् ! त्वं मुक्ति भुक्तवान् निर्वृतिनितम्बिनीं सेवितवान् , कथम्भूतः ? अरक्तो विगतरागा-- भिष्वङ्गः । तथा द्विषो भावशत्रून्निहतवान् , किं विशिष्टः ? अद्विष्टो द्वेषकालुण्यरहितः । यश्चारक्तः स कथं कामिनी कामयते ? । यश्चाद्विष्टः स कथं द्विषो हन्ति ? । भगवांश्च यत एवारक्तद्विष्टो भावारिगणं निजग्राह तत एव मुक्तिसीमन्तिनीमभजत । अत्रार्थान्तरमाह-अहो इत्यादि । अहो इति विस्मये, यतो महतां भुवनमहनीयमहसां कोऽपि वाग्गोचरातिक्रान्तो महिमा प्रभावस्तत एव लोकदुर्लभः पृथग्जलदुष्प्रापः, कथमन्यथा स्वामिना नीरागेण मुक्तिरुपभुज्यते निद्वेषेण चान्तरद्विषो विक्षिप्यन्त इति ।
किञ्च
सर्वथा निर्जिगीषण भीतभीतेन चागसः । त्वया जगत्त्रयं जिग्ये महतां कापि चातुरी ॥३॥
हे नाथ ! सर्वथा जीतवानी इच्छा नहिं होवा छतां, अने पापथी अत्यंत भय पामेला होवा छतां आपे व्रणे जगतने जीती लीधा छे. खरेखर महान् आत्माओनी चतुराइ कोई अद्भुत ज होय छे. (३)
अव० सर्व०-हे वीतराग! सर्वथा सर्वप्रकारैर्निर्जिगी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org