________________
[ श्रीवीतरागस्तोत्रे
एवमद्भुतस्तवमभिधाय साम्प्रतं यन्मूलान्यमून्यद्भुतानि तदेव परमात्मनो माहात्म्यं महिमस्स्तवेन प्रस्तावयन्नाह -
१५४
निघ्नन् परीषहचमूमुपसर्गान् प्रतिक्षिपन् । प्राप्तोऽसि शमसौहित्यं, महतां कापि वैदुषी ॥१॥
हे नाथ ! परीषहोनी सेनाने हणता तथा उपसर्गोनो तिरस्कार करता एवा आप समतारूप अमृतनी तृप्तिने पाम्या छो. अहो ! मोटाओनी चातुरी खरेखर कोई अद्भुत होय छे. (१)
अथाचिन्त्यमाहात्म्यमाहुः -
अव० निघ्नन्० - ते वीतराग ! त्वं ' परि समन्तात् त्रिकरणशुद्ध्या सह्यन्ते साधुभिः ' इति परीषहाः, तेषां चमूंश्रेणीं निघ्नन् - निराकुर्वन् । उपसृज्यन्ते सत्पथात् प्रच्याव्यन्ते कातरा नरा एभिरित्युपसर्गास्तान् प्रतिक्षिपन् दूरे निरस्यन्, शमसौहित्यं शमामृततृप्तिं प्राप्तोऽसि, अतः कारणान्महतां वैदुषी चतुरता काव्यपूर्वाऽस्ति ॥ १ ॥
वि० - हे स्वामिन् ! असि भवान् शमसौहित्यं प्राप्तः प्रशमामृततृप्तिमवाप्तवान् । ननु तथाविधविपक्षविक्षेपमन्तरेणानुदीर्णसम्परायाणां सुलभमेव शमसौहित्यमित्याह - निघ्नन्नित्यादि । fi कुर्वन् शमं प्राप्तः ?, परीषहचमूं निघ्नन् परि सामस्त्येन त्रिकरण - शुद्ध्या सह्यन्ते मुमुक्षुभिरिति परीषहाः, क्षुदादयों द्वाविंशतिस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org