________________
दशमः प्रकाशः )
१५३ समता आश्चर्यकारी, रूपमद्धतम् , सर्वजीवेषु दया-कृपा अद्भुता सर्वेषामद्भुतानामाश्चर्याणां निधीशाय-महानिधानाय भगवते ऐश्वर्यादिषट्कवते तुभ्यं नमोऽस्तु ॥ ८॥
वि०-हे समस्ताद्भुतभवन ! भगवन् ! कियद्वा तवाद्भुतमस्माभिरभिधीयते, यतस्तावत्रिजगताप्यतुलिते बले सत्यपि उपद्रवत्सु च क्षुद्रात्मसु सम्परायपराजयजन्मा मिथ्याभिनिवेशोपशमसमुत्थश्च तव शमः-प्रशमोऽद्भुतः सर्वातिशायी। तथा रूपं स्वभाविकं शरीरसौन्दर्य तदपि प्रागुक्तयुक्त्यैवाद्भुतं निरुपमम् । तथा सर्वेष्वप्यात्मसु चराचरेष्वपक्षपातेन साधारणा कृपा-करुणाप्यद्भुता लोकोत्तरा । एवं प्रकाराणामन्येषामपि कल्याणरूपाणां सर्वाद्भुतानां ये निधयः-सेवधयस्तेषामीशाय स्वामिनेऽत एव भगवते-परमैश्वर्यनिलयाय तुभ्यं-भुवनोत्तमाय नमो नमस्कारोऽस्तु त्वां प्रति त्रिकरणशुद्ध्या प्रयतः प्रणमामीति । इति श्रीवीतरागस्तोत्रे दशमस्याद्भुतस्तवस्य पदयोजना ।
इति दशमप्रकाशस्यावचूर्णिः ।
Set
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org