________________
१५२
[ श्रीवीतरागस्तोत्रे
कोटाकोटीरसवथा दुःखमनुभवन्ति, न कदाचिद्विश्रामः।ते नारका अपि यस्य तव कल्याणपर्वसु च्यवनादिकल्याणकेषु मुहूर्तमुद्योतवेदनोपशमेन मोदन्ते-हर्षमनुभवन्ति, तस्य-तव शुचि चारित्रं-चरितं वर्णयितुं-व्याकर्तुम् , को बृहस्पत्यादिरपि क्षम:-समर्थः ? ॥ ७ ॥
वि०-हे सकलाश्चार्यचर्यानिलय ! यस्य तव कल्याणपर्वसु गर्भावतारजन्मनिष्क्रमणज्ञाननिर्वाणोत्सवेषु तावदासतां सम्भाव्यसुखानुभवाः सुरनरादयः, किन्तु निरन्तरदुर्वारदारुणवेदनोदयार्दिता नारका अपि मोदन्ते-सुखलवानुभवेन मुदमुद्वहन्ति । तस्य विश्वैकमित्रस्य पवित्रमनुस्मरणमात्रेणैव पावनं चारित्रं-भुवनाद्भुतं चरित्रातिशयं को नाम सहजनिजप्रज्ञावज्ञातवाचस्पतिमतिविभवोऽपि वर्णयितुमुपस्तोतुं क्षमः-समर्थ ?, न कोऽपीति भावः ।
एवं चशमोऽद्भुतोऽद्भुतं रूपं सर्वात्मसु कृपाद्भुता । सर्वाद्भुतनिधीशाय तुभ्यं भगवते नमः॥८॥ ___ साश्चर्यकारि-समता, अद्भुतरूप, अने सर्वजीवोने विषे आश्चर्यकारि-दया; एवा सर्व-आश्च. योना भंडाराधिपति-भगवन्त-तमोने नमस्कार थाओ. (८)
अव०-शमो० । हे वीतराग!, बहु किम् ?, तव शमः
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org