________________
दशमः प्रकाशः]
वि०-हे अप्रमेयमहिमन् ! भगवन् ! इदमपि द्वयं विरुद्धं स्थूलदृष्ट्या परस्परविसदृशं तवैव दृश्यते, न पुनरन्यस्य त्वद्विधादितरस्य कस्यचिदपि । किं तदित्याह-निग्रन्थतेत्यादि । या परा निर्ग्रन्थता या चोच्चैश्चक्रवर्तिता । तत्र निर्ग्रन्थता सर्वसङ्गपरित्यागेनाकिञ्चन्यं चक्रवर्तिता च धर्मसम्राटपदवी, अतो यस्यैव यदैव निर्ग्रन्थता तस्यैव कथं चक्रवर्तितेति विरुद्धम् । परिहारे तु स्वामिनः सर्वविरतिप्रतिपत्तिप्रस्तावे पटप्रान्तविश्रान्ततृणवदवगणितधनधान्यकलत्रपुत्रराज्यराष्ट्रदेशकोशादिपरिग्रहस्यासामर्थ्यलभ्यैवनिम्रन्थता, तथा वीतरागत्वेन विलीनप्रभुत्वाभिलाषस्यापि परमार्हन्त्यप्रभावादुपनतश्वेतातपत्रत्रयचामरमृगेन्द्रासनकनककमलधर्मचक्रमहेन्द्रध्वजकोटाकोटीप्रमितसुरासुरनरोपास्तिव्यक्ता धर्मचक्रवर्तितापि भगवतः सङ्गतैव । केवलमरतिरतिकारणयोर्निर्ग्रन्थत्वचक्रवर्तितयोः सद्भावेऽपि स्वामिनः सैव परमसाम्यलीलेति न किञ्चिदसमीचीनम् ।
अन्यच्च-~नारका अपि मोदन्ते यस्य कल्याणपर्वसु । पवित्रं तस्य चारित्रं को वा वर्णयितुं क्षमः ॥७॥
जेना कल्याणकारि च्यवन-जन्म-दीक्षा-केवल-मोक्षकल्याणक-पर्वोमां सर्वदा दुःखि-नारकियो पण हर्ष पामे छे, तेना पवित्र-चारित्रनुं वर्णन करवाने कोण समर्थ छे ? (७)
अव०-नार। हे वीतराग! येऽर्हनिशं कर्मवशतो वर्ष
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org