________________
१५०
[ श्रीवीतरागस्तोत्रे
0
वि०- हे त्रिजगतीनाथ ! नाथ ! इयमपि द्वयी विविधविधि - भिर्घट्यमानापि त्वदपरस्मिन् पात्रे कथं केन प्रकारेण घटतां संवदतु । यतो दुर्घटा अर्वाग्ट्या विसंवादिनी, तामेवाह - उपेक्षेत्यादि । उपेक्षा उपकारिता च । तत्र उपेक्षा- औदासीन्यं, उपकारिता - प्रियकारित्वम् । अतो यः किलोपेक्षकः स कथमुपकारीति दुर्घटत्वम् । प्रकृते तु भगवतां श्रीमदर्हतां वीतरागत्वस्वभावादेवोपकार्यनुपकार्यादिषु सर्वेष्वपि सत्त्वेषु रागद्वेषाभावेन माध्यस्थ्यमुपेक्षा, धर्मतीर्थप्रवर्त्तनेन च तेष्वेव परमा सर्वोत्तमा भावोपकाररूपा उपकारिता, न चैतत्तेष्वनुपपन्नमिति ।
अपरं च -
―――
द्वयं विरुद्धं भगवंस्तव नान्यस्य कस्यचित् । निर्ग्रन्थता परा या च या चोच्चैश्चक्रवर्तिता ॥६॥
हे भगवन् ! त्हारे आ वन्ने विरुद्धपणे वर्ते छे, पण ते बन्ने बीजा कोई अन्य देवने होती ज नथी; एक उत्कृष्टपणे वर्तती निर्ग्रन्धता अने बीजी अतिशयपणे वर्तती धर्मचक्रवर्तिता. (६)
अव० - द्वयं ० । हे भगवन् ! तव द्वयं विरुद्धमन्यस्य कस्यचिद् हरादेर्नैवास्ति । तद् द्वयं किमित्याहुः - नि० | या परोत्कृष्टा निर्ग्रन्थता निरीहता एकतः । अपरतश्वोच्चैरतिशयेन धर्मचक्रत्वमिति ॥ ६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org