________________
दशमः प्रकाशः ]
१४९
वि०-हे श्रद्धेयसकलाद्भुतचरित्र ! स्वामिन् ! इदं वक्ष्यमाणमश्रद्दधानकः श्रद्धावन्ध्यहृदयः कथं-केन प्रकारेण श्रद्धत्तां तथेति प्रतिपद्यताम् । यतो विरुद्धमयौक्तिकमिव तदेवाह-आनन्देत्यादि । त्वयि विषये आनन्दसुखसक्तिर्विरक्तिश्च, तत्र सुखसक्तिः-सङ्गरूपा विरक्तिश्च सङ्गत्यागरूपा, एतयोश्च परस्परविरुद्धयोः शीतभानुभानुप्रभयोरिव कथमेकत्र वासः ?, यदि पुनः पर्यायेण भविष्यत इत्याहसमं-युगपत् । अथ च परानन्दरूपे सुखे सक्तिर्ज्ञानगर्भवैराग्यरूपा विरक्तिर्भगवति वीतरागे युगपदवस्थितैवेति न कश्चिद्विरोधः । एवमप्यश्रद्दधानान्निजेनाबोधेनैव निहतांस्तपस्विनः कः प्रत्याययतु ।
किञ्चनाथेयं घट्यमानापि दुर्घटा घटतां कथम् । उपेक्षा सर्वसत्त्वेषु परमा चोपकारिता ॥ ५॥
हे नाथ ! आ बन्ने घटवावाळी छतां पण दुःखे करीने केवी रीते घटे छे ?, एक सर्व जीवोने विषे माध्यस्थ्यता, अने बीजी सर्व जीवोने विषे उत्कृष्टउपकारिता. (५)
अव०-नाथे । हे नाथ! इयं द्वयी घट्यमानापि त्वयि प्रत्यक्षेण दर्शनान्मन्यमानापि दुर्घटाऽन्यत्र काप्यदर्शनात् कथं घटतां कथमस्तु !, इयमिति किम् ?, सर्वसत्त्वेषु-सकलजीवेषूपेक्षा-माध्यस्थ्यं रागद्वेषाभावेन परमा प्रकृष्टा च पुनरुपकारिता ज्ञानादिदर्शनेन वत्सलताऽस्ति ।। ५ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org