________________
१४८
[ श्रीवीतरागस्तोत्रे संशयान्-जीवादितत्त्वगोचरान् सन्देहान् हरसे-व्यपनयसि । श्रूयते हि किलानुत्तरसुराः समुत्पन्नसंशयास्तत्रस्था एव मनसा स्वामिनं पृच्छन्ति, भगवांस्तु विमलकेवलालोकादवधार्य तदनुग्रहाय स्वमनसि तदुत्तरं धारयति, ते च सम्भिन्नां लोकनालिमप्रतिबद्धनावधिना पश्यन्तः स्वामिनो रूपिमनोगतमुत्तरं प्रतिपद्य प्रमोदमेदुराः सम्पद्यन्ते । अतस्त्वामन्तरेण कस्यापरस्येयमनुत्तरसुरसन्देहव्यपोहलक्षणा जगद्विलक्षणा शक्तिः । कश्चातः परोऽपि तव गुणो वस्तुतः-परमार्थतः स्तुत्यः ?, अस्यैव सर्वोत्तमत्वादिति ।
किञ्चइदं विरुद्धं श्रद्धतां कथमश्रद्दधानकः । आनन्दसुखसक्तिश्च विरक्तिश्च समं त्वयि ॥४॥
हे वीतराग! त्हारा लोकोत्तर चारित्रनी अश्रद्धा करनारो आ बन्ने विरूद्धनी-परस्परविरुद्धनी केवी रीते श्रद्धा करे. एक एकी साथे अनन्तानन्त सुखमां लीनता अने बीजं सर्वसंगनी विरति. (४)
अद्भुतचरितं प्रकटयन्ति
अव०-इदं० । हे वीतराग! अश्रद्दधानकस्तव लोकोत्तरचरितानभिज्ञ इदं विरुद्धं परस्परामिलद् द्वयं कथं श्रद्धत्तांमन्यताम् !, इदं किम् ?, त्वयि समं युगपदानन्दसुखसक्तिरनन्तानन्दरूपे सुखे सक्तिीनता विरक्तिः सर्वसङ्गविरतिश्च स्तः । चकारस्तुल्यकक्षतार्थः ॥ ४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org