________________
दशमः प्रकाश:]
१४७ ५६९] तथा तव सम्बन्धिनो लोकोत्तरज्ञानदर्शनवैराग्यश्वर्यप्रमुखान् गुणानास्तामेकजिह्वः, किन्तु सहस्रजिह्वो दशशतरसनोऽपि वक्तुं निःशेषतया वर्णयितुं परिमातुं वा न शक्तः, निरवधित्वात् तेषाम् । पठन्ति च-"यदि त्रिलोकी गणनापरा स्यात् तस्याः समाप्तिर्यदि नायुषः स्यात् । पारेपराद्ध्यं गणितं यदि स्यात् गणेयनिःशेषगुणोऽपि स स्यात् " इति ।
तेषां गुणानामेव वर्णिकामात्रमुपक्षिपन्नाहसंशयानाथ ! हरसेऽनुत्तरस्वर्गिणामपि । अतः परोऽपिकिं कोऽपि गुणः स्तुत्योऽस्ति वस्तुतः।।३
हे नाथ ! अनुत्तर विमानवासियोना संदेहोने अहीं रह्या थका आप दूर करो छो, आथी आ संशय दूर करवाथी बीजो एवो कोई पण गुण वस्तुतत्त्वथी प्रशंसवा योग्य नथी. ( ३ )
अव०-संश० । हे नाथ ! त्वमिहस्थ एवानुत्तरस्वर्गिणां द्वादशयोजनैः सिद्धेश्वर्वाकस्थितानामपि संशयान्-सन्देहान् हरसे । अतः संशयापनोदात् परोऽन्योऽपि कोऽपि गुणो वस्तुतः-परमार्थतः, स्तुत्यः-स्तवनयोग्यः, किमस्ति ?, नास्तीत्यर्थः ॥ ३ ॥
वि०-हे सुरासुरनरनाथ !, नाथ !; यदि त्वमीषदूनसप्तरज्जुप्रमितक्षेत्रस्थितानामप्यनुत्तरस्वर्गिणां पञ्चोत्तरसुराणामिह स्थित एव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org