________________
१४६
[ श्रीवीतरागस्तोत्रे सुदूरमन्तरम् , ततस्त्वं महेच्छतया निसर्गकारुणिकत्वेन च तुच्छां मत्प्रसत्तिमवगणय्य प्रथममेव प्रसादसुमुखो भव, प्रसन्ने च त्वय्यवश्यम्भाविनी मत्प्रसत्तिरेवं चान्योन्याश्रयोऽपि दूरादपास्त इति न किञ्चिदचतुरस्रम् ।
तथानिरीक्षितुं रूपलक्ष्मी सहस्राक्षोऽपि न क्षमः । स्वामिन् सहस्रजिह्वोऽपि शक्तो वक्तुंन ते गुणान्॥२ _हे स्वामिन् ! तारी रूपलक्ष्मीने जोवाने हजारो आंखवाळो पण समर्थ नथी, अने त्हारा गुणोनुं वर्णन करवाने हजारो जिह्वावाळो पण समर्थ नथी.(२)
अव०-निरी० । हे स्वामिन् ! ते तव रूपलक्ष्मी निरीक्षितुं सहस्राक्षोऽपि-सहस्रनयनोऽपि न क्षमः-न शक्तः, ते गुणान् वक्तुं सहस्रजिह्वोऽपि न समर्थः ॥ २॥
वि०-हे स्वामिन् ! सर्वाद्भुतनिधान ! तव किमेकमद्भुतं वर्ण्यताम् । तथाहि-तव रूपलक्ष्मीमनुत्तरसुरैरपि स्पृहणीयां सर्वोत्तमामनुपाधिमधुरां शरीरशोभामासतां तावद् द्विनयनीदुःस्थाः सुरासुरनरादयः, किन्तु सहस्राक्षः-सहस्रलोचनः शक्रोऽपि निरीक्षितुं यथावत्परिच्छेत्तुं न क्षमो न समर्थः, निरुपमत्वात्तस्याः । श्रूयते चाप्तोक्तिषु “सव्वसुरा जइ रूवं अंगुट्टपमाणयं विउव्वेज्जा । जिणपायंगुटुं पइ न सोहए तं जहिंगालो" इति [ आव० नि० गा०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org