________________
दशमः प्रकाशः]
हे भगवन् ! म्हारा मननी प्रसन्नताथी त्हारी प्रसन्नता, अने त्हारी प्रसन्नताथी म्हारा मननी प्रसन्नता ए प्रकारे उत्पन्न थतो आ अन्योन्याश्रय तुं भेदी नांख, अने म्हारा उपर महेरबानी कर. (१)
अथ सोपचारवचांस्याहुः
अव०-मत्प्र० । हे भगवन् ! मत्प्रसत्तमम मनःप्रसन्नतानुसारेण त्वत्प्रसादः स्यात् । तदनुसारेण च मे मनःप्रसत्तिः । इत्यमुना प्रकारेणोत्पन्नमन्योन्याश्रयं भिन्धि-स्फोटय मयि-मद्विषये प्रसीद, तुच्छां मत्प्रसत्तिमवगणय्य प्रागेव प्रसादं कुरु, त्वयि प्रसन्ने मत्प्रसत्तिरवश्यं भविष्यतीत्यर्थः॥१॥
वि०-हे भगवन् ! परमैश्वर्यसम्पन्न ! किल यस्मादैहिकमल्पमात्रमपि फलमिष्यते सोऽपि तदर्थिभिराभिमुख्यमानीय प्रसाद्यते, मया तु त्वत्तः सर्वोत्तमं परमपदम भिलषता त्वं सविशेष प्रसादनीयः, स च त्वत्प्रसादः प्रथमं मत्प्रसत्तिमपेक्षते । किल यदाहमरतद्विष्टेन परमसमभावभावितेन मनसा त्वदाज्ञां सम्यगाराधयामि तदा त्वं प्रसीदसि, सा च परमसाम्यरूपा मत्प्रसत्तिस्त्वत्प्रसादानुभाविनी त्वय्येव प्रसन्ने भवति, एवं चेतरेतराश्रयदोषः, स चानुगृहीतो निरङ्कुशं प्रसरन्नुभयोरप्यभावाय प्रभवति । तस्माद् भुवनवत्सल ! त्वमेनमन्योन्याश्रयं भिन्धि-व्यपनय । तदपनयने उपायमाहप्रसीद मयीति । किमुक्तं भवति-महेच्छतुच्छयोर्मतङ्गजमशक्योरिव
१०
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org