________________
१४४
। श्रीवीतरागस्तोत्रे इदमेव दृष्टान्तेन स्पष्टयति-विषेत्यादि । यथा फणीन्द्रः-पन्नगपतिः शोभते । किं विशिष्टो ?, विषयुक्तः प्रबलगरलकलितः; कस्मात् !, रत्नतः स्वमौलिमणेः; किंविशिष्टात् !, विषहरात्-विषदोषनिग्राहकात् । न च फणमणेः फणी कदाचिदप्यधिकः, तथैव त्वत्तः कलिः, केवलमस्मिंस्त्वदर्शनलाभो ममाभूदिति निर्गुणस्याप्युपकारिणोऽस्य प्रशंसा विदधे; व्यतिरेके तु कृतघ्नत्वं स्यात् । एतत्पक्षपातहेतुविचारणायां च स्तुतिकर्तुस्तत्त्वतो भगवद्गुणपक्षपात एवेति समञ्जसम् । यदि बा बहुदोषोऽपि त्वत्त एव हेतुभूतात् कलिरशोभत, यतः किम्भूतात्त्वत्तः ?, दोषहीनात् दोषकालुण्यविनिर्मुक्तात् । यथा फणवान् विषयुक्तोऽपि तद्दोषनिग्राहकान्निजमौलिमणेरेव शोभत इति ।
इति श्रीवीतरागस्तोत्रे नवमस्य कलिस्तवस्य पदयोजना ।
इति नवमप्रकाशस्यावर्णिः ।
-- ---- अगतप्रतिकूलमप्येवं भगवदर्शनदानेनानुकूलं कलिमुपश्लोक्याद्भुतस्तवं स्तुतिकृत् प्रस्तावयबाहमत्प्रसत्तेस्त्वत्प्रसादस्त्वत्प्रसादादियं पुनः । इत्यन्योन्याश्रयं भिन्धि, प्रसीद भगवन्मयि ॥१॥
१-'यदिवा' इत्यत आरभ्य 'शोभत इति' इति यावत् पाठः ग्रथममुद्रितपुस्तके नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org