SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ नवमः प्रकाशः ] १४३ पपन्नम् । अस्मै तु कलये सकलदोषकलुषायापि नमोऽस्तु-नमस्कारोऽस्तु, यत्र यस्मिन् भवशतसहस्रदुर्लभं सुकृतशतप्राप्यं मम त्वदर्शनमजायत । अयमाशयः-किल यदि युगान्तरेषु मम त्वदर्शनमभविष्यत् तदा न खल्वहमियन्तं कालं भवभ्रमणमकरिष्यमिदानीं तु प्राप्ते त्वदर्शने दत्तो दीर्घभवभ्रमणाय मया जलाञ्जलिरिति । न च कृतयुगादिभ्य एव कलिः कमनीयः, किन्तु भगवतोऽ. पीति सोपहासमाहबहुदोषो दोषहीनात्वत्तः कलिरशोभत । विषयुक्तो विषहरात् फणीन्द्र इव रत्नतः ॥ ८ ॥ ___ अढार दोष रहित एवात्हाराथी-घणा दोषवाळो कळिकाळ शोभी रह्यो छे. जेवी रीते विषवाळो विषधर सर्प विषने हरण करनार मणिथी शोभे छे, तेवी रीते आ कळिकाळ शोभे छे. (८) अव०-बहु०। हे वीतराग! अष्टादशदोषरहितात् त्वत्तो बहुदोषोऽसत्यमात्सर्यादियुक्तः कलिरशोभत इव यथा विषयुक्तो भुजगेशो विषहराद्रत्नात् शोभते ॥ ८ ॥ वि०-हे जगल्ललाम ! त्वं तावज्जगत्यपि सर्वोत्तमत्वेन शोभसे। अयं तु कलिस्त्वत्तोऽप्यशोभत । यदि पुनर्गुणाधिकः स्यादित्याहबहुदोषो निखिलदोषास्पदम् । त्वत्तः, किंविशिष्टात् ?, दोषहीनादोषाणुनाप्यस्पृष्टात् , दोषोत्कर्षेणैव च तस्य त्वत्तः समुत्कर्षः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003020
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
AuthorChandraprabhsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1949
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy