________________
१४२
[ श्रीवीतरागस्तोत्रे सनाद्वीपः, आन्तरारातितपनोपतप्तानां च विश्रामशाखी, निबिडतममोहजडिमग्लपितानां च शिखी चेति समञ्जसम् ।
तथा स्वकार्यतात्पर्येण हि प्रायः पर्यवस्यत एव सदसद्विचारस्तत एव स्तुतिकृन्निरुपकारियुगान्तरपरिहारेणोपकारिणं कलिमुपच्छन्दयन्नाहयुगान्तरेषु भ्रान्तोऽस्मि त्वदर्शनविनाकृतः । नमोऽस्तु कलये यत्र त्वदर्शनमजायत ॥ ७ ॥
त्हारा दर्शन रहित कृतयुगादिमां हुं भमेलो छु, जेथी करीने जेमा हारं दर्शन धयेलं छे एवा आ कलिकालने नमस्कार थाओ. (७)
अव०-युगा०। हे वीतराग ! अस्म्यहं त्वदर्शन विनाकृतस्त्वच्छासनरहितः कृतयुगादिषु भ्रान्तः संसारारण्ये, तेन कलये नमोऽस्तु, यत्र त्वदर्शनमजायत त्वं दृष्ट इत्यर्थः ॥७॥
वि०-हे विश्वजनीन ! कृतधियस्तत्तद्गुणोपबृंहणेन सुषमादियुगानां गौरवमारोपयन्तु, मम तु कलिव्यतिरिक्तेषु युगान्तरेषु उदासीनमेव मनः । किमित्या-यतस्तेष्वहमनन्तमनेहसं भ्रान्तः पर्यटितोऽस्मि । किम्भूतः ?, त्वदर्शनविनाकृतः तव सम्बन्धि-दर्शनं त्वदुक्ततत्त्वरुचिरूपं त्वदर्शनं तेन विनाकृतो वञ्चितः । अतः कृतयुगादिभिः परविभूतिपरिस्पन्दैरिव सुमनोहरैरप्यनुपयोगिभिः किं ?, यद्वा आस्तां तावत्तव सेवाफलम् , किन्तु त्वदर्शनमात्रमपि मम नो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org