SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ नवमः प्रकाशः ] अन्यच्चनिशि दीपोऽम्बुधौ द्वीपं, मरौशाखी हिमे शिखी। कलौ दुरापःप्राप्तोऽयं, त्वत्पादाब्जरजःकणः॥६॥ रात्रिने विषे दीपक, सागरने विषे द्वीप, मारवाडने विषे वृक्ष; अने शियाळामां वहिनी जेम कलिकालमां दुःखे करीने आ रहारा चरणकमळना रजकण प्राप्त कर्यां. (६) अव०-निशि०हे वीतराग! अयं त्वत्पादाब्ज-त्वचरणरेणुकणः, कलौ दुरापो दुर्लभः प्राप्तः, यथा रात्रौ प्रदीपः, समुद्रे द्वीपम् , मरुभूमौ वृक्षः; शीतकाले शिखी-अग्निः ॥६॥ वि०-हे विश्वैकवत्सल ! कलौ-कलियुगेऽयं त्वत्पादाब्जरजःकणस्त्वच्चरणसरोजनिश्छद्मसेवालवः कथङ्कथमपि मया प्राप्तः । यतो दुरापः अगण्यपुण्यप्रचयमन्तरेण दुर्लभः । अमुमेवार्थं दृष्टान्तचतुष्टयेन स्पष्टयति-निशीत्यादि । यथा-केनचित्कार्यार्थिना निशितमस्विन्यां प्रदीपः प्राप्यते, यथा च कस्यचिदगाधजलधिमध्यप. तितस्य द्वीपः सङ्घटते, यथा केनचिन्मरुपान्थेन खरतरखरांशुकरालांशुजालज्वलितगात्रेण शाखाशतस्फीतः शाखी लभ्यते, यथा च हिमे महति हिमानीसम्पाते केनचिच्छिखी ज्वलनः प्राप्यते, तथा मया कलौ त्वत्पादाब्जरजःकणः प्राप्त इति । ससुचिता सेयं दृष्टान्तचतुष्टयी स्वामिनः, तथाहि-मिथ्यात्वनिश्यज्ञानान्धतमसि मोहितमनसां केवलालोकप्रदीपो भगवान् , भवाब्धौ च निमज्जतामाधा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003020
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
AuthorChandraprabhsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1949
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy