________________
१४०
[ श्रीवीतरागस्तोत्रे कल्याणसिद्धयै साधीयान् , कलिरेव कषोपलः। विनाऽग्निं गन्धमहिमा, काकतुण्डस्य नैधते॥५॥
कल्याणनी सिद्धि माटे आ कलिकालरूपी कसोटीनो पत्थर एज श्रेष्ठ छे. अग्नि विना काकतुंड-अगरु-धूपना गन्धनो महिमा वधतो नथी. (५)
अथ श्लोकचतुष्टयेन कलिदोषमपनयति
अव०-कल्या० हे वीतराग ! कल्याणसिद्ध्यै शुभसम्प्राप्य, कलिग साधीयान्-साधुतरः, कपोपल:- करपट्टा, कल्याणं श्रेयः कनकमपि,भव्यानामिति गम्यम् । यथा काकतुण्डस्यागुरोरग्निं विना गन्धमहिमा नैधते-न वद्धते ।। ५ ।।
वि०-हे अतुल्यकल्याणनिलय ! भगवन्नदंयुगीनभव्याजिनां कल्याण सिद्धयै शुभसम्भारसमृद्ध्यै कलिर्दुःषमैव साधीयान्-प्रधानतमः, कषोपल:-कषपाषाणः । किमुक्तं भवति-किल सकलशुभसामग्रीसंवर्गितेषु सुषमादियुगेषु भव्यानां सुकरैव सुकृतसंसिद्धिः, येषां तु सामग्रीविरहेऽपि कल्याणकृत्संसिद्धिनिमित्तमुपक्रमस्तेषां सत्त्वकाञ्चनपरीक्षायां कलिरेव कषोपलः । अथ च कल्याणस्य-सुवर्णस्यापि सिद्धिः परीक्षा कषपाषाणाधीनैव । अत्रैवार्थान्तरमाह-वि. नेत्यादि । काकतुण्डस्य-कृष्णागुरोर्गन्धमहिमा परिमलप्रभावोऽग्निवैश्वानरं विना नैधते-न वृद्धिमुपयाति, अतो यथा कृष्णागुरुपरिमलमग्निरेध(य)ते तथा सत्त्ववतां सत्त्वप्रकर्ष कलिरुत्कर्षयतीति भावः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org