________________
१३८
[ श्रीवीतरागस्तोत्रे
ज्ञः, याभावेतौ युज्येयातां मिलतस्तत्तर्हि त्वच्छासनस्य कलावप्यतिशयरहितेऽपि काले साम्राज्यमेकच्छत्रमेकातपत्रं सार्वत्रिकमित्यर्थः । श्रोत्रा कुमारपालेनात्मना च प्ररूपकत्वे. नाऽनुभवसिद्धं कवेर्वचनमिदम् ॥ ३ ॥
वि०-हे जगदीश ! त्वच्छासनस्य तवाप्रमेयप्रभावस्य प्रवचनस्य कलौ-दुःषमायामपि साम्राज्य-चक्रवर्तित्वं जायेत । किं विशिष्टं !, एकच्छत्रमेकातपत्रम् । यदि किं ?, यदि युज्येयातां युक्तौ भवेताम् , को श्रोता वक्ता च ?, किं विशिष्टंः श्रोता?; श्राद्धः-निरुपाधिविशुद्धश्रद्धाबन्धुरान्तःकरणः । वक्ता तु सुधीः शोभना समस्तशास्त्रार्थरहस्यनिस्यन्दावगाहविशदा धीस्तत्त्वानुगामिनी मतिर्यस्य स तथा । दुर्लभश्च प्रायेणैवंविधयोः श्रोतृवकोर्योगः । यदि च दैवात्संयुज्येयातां तदा नियतमर्हच्छासनस्य साम्राज्यमेकच्छत्रं रचयेताम् । इदं च स्तुतिकर्तुरनुभवसुभगं वचः, तथाहि-निरवधिनय विक्रमवशंवदीकृतसकलक्ष्मापालचक्रवालः श्रीकुमारपालदेवः श्राद्धः श्रोता, युगान्तर्वतिसकलवाङ्मयपारावारपारीणमतिः श्रीहेमचन्द्रसूरिः सुधीर्वक्ता, तथाविधविधियोगाचानयोः समजनि संयोगः, कृतं च कलावपि श्रीजिनशासनसाम्राज्यमाभ्यामिति स्थाने खानुभवसुभगमिदमुदीरितमिति ।
किञ्चयुगान्तरेऽपि चेन्नाथ!, भवन्त्युच्छृङ्खलाः खलाः। वृथैव तर्हि कृप्यामः, कलये वामकेलये ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org