________________
नवमः प्रकाशः ]
१३७
दुःषमायां कलौ, तव कृपा प्रसत्तिः फलवती-फलदायिनी । दृष्टान्तमाहुः-हि यस्मात्कारणान्मेरुतो मरुभूमौ-वृक्षमात्ररहिते देशे, कल्पतरोः स्थितिरवस्थानम् , श्लाघ्या-शोभनतरा ॥२॥
वि०-हे प्रक्षीणाशेषदुःख ! भगवन् ! सुषमातः सुषमारकात् दुःषमायां दुःषमारके तव सम्बन्धिनी कृपा सर्वसत्त्वसाधारणी करुणा फलवती सविशेषफला भवति । अत्रार्थान्तरमाह-कल्पतरो:-कल्पपादपस्य स्थितिरवस्थानं मेरुतः सुरभूधरात् मरुभूमौजाङ्गलावनितले श्लाघ्या-प्रशस्या । इदमुक्तं भवति-भूरिभूधरे हि सर्वत्रापि सुलभसुरभूरुहि नः कल्पविटपिनोऽवस्थानं न तथा विस्मयं जनयति यथा करीरकरवीरादिभिरपि विरहिते मरुस्थले । एवं सुषमादौ पदे पदे सुलभेषु विशिष्टज्ञानभानुषु पुरुषेषु भगवत्कृपा धर्मतीर्थप्रवर्त्तनादिरूपा न तथोपयोगिनी यथा सर्वातिशयशून्ये दुःषमासमय इति ।
किञ्चश्राद्धःश्रोता सुधीर्वक्ता, युज्येयातां यदीश! तत्! त्वच्छासनस्य साम्राज्यमेकच्छत्रं कलावपि ॥३॥
हे इश ! श्रद्धावान् श्रोता अने बुद्धिमान् वक्ता, ए बेनो योग थाय तो आ कलिकालमां पण आपना शासननुं साम्राज्य एकछत्रपणे वर्ते छे. (३)
अव०-श्राद्धः । हे ईश !, श्रोता-त्वद्वचनाकर्णयिता, श्राद्धः-परमश्रद्धावान् , वक्ता-प्ररूपकः, सुधीस्त्वदागमरहस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org