________________
[ श्रीवीतरागस्तोत्रे द्भक्तेः फलमाप्यते-आसाद्यते । यतः उक्तं-'कृते वर्षसहस्रेण, त्रेतायां हायनेन च । द्वापरे यच्च मासेन, अहोरात्रेण तत्कलो ।११।" इत्यतः स एकः कलिकालोऽस्तु, कृतयुगादिभिः कृतं-सृतम् ।। १॥
वि०-हे कलिकालदर्पदलन ! स्वामिन् ! अस्मिन् जगति स एवैकः कलिर्दुःषमाख्यः कालः-समयोऽस्तु, कृतयुगादिभिः सुषमादिभिस्तु कृतं-पर्याप्तम् । किमित्याह-यत्रेत्यादि । यत्र यस्मिन् कलौ त्वद्भक्तेः-सम्यग्ज्ञानदर्शनचारित्रासेवनरूपायाः फलमनन्तरितं स्वर्गादि परम्परितमपवर्गोऽवाप्यते । ननु कृतयुगादिष्वपि समानमेतदित्याह-अल्पेनापि कालेन-स्वल्पेनापि समयेन । किमुक्तं भवति-किल सुषमादौ त्वद्भक्तेर्यावन्मात्रं फलं पूर्वकोटिप्रमितेनायुषा प्राप्यते दुःषमायां तत्कालप्रमितं त्वद्भक्तेः फलं वर्षशतप्रमाणेनाप्यायुषा लभ्यत इति कृतयुगादिभ्यः कथं कलिर्न स्पृहणीय इति।
तथासुषमातो दुःषमायां, कृपा फलवती तव । मेरुतोमरुभूमौ हि, श्लाघ्या कल्पतरोः स्थितिः॥२॥
सुषमाकाल करतां दुःषमा कलिकालमा आपनी कृपा अधिक फलवती छे, मेरुपर्वत करतां मरुभूमिमां कल्पतरुनी स्थिति वधारे प्रशंसापात्र छे.(२)
अव०-सुष०। हे वीतराग ! सुषमाता-कृतयुगादितः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org