________________
१३४
। श्रीवीतरागस्तोत्रे
स्थायिनि पूर्वदुग्धपरिणामविनाशोत्तरदधिभावोत्पादौ सम्भवन्तौ प्रत्यक्षादिप्रमाणबलेनोपलब्धौ, तौ च कथमपह्नोतुं पार्येते । यदुक्तम्"पयोव्रतो न दध्यत्ति, न पयोऽत्ति दधिव्रतः। अगोरसवतो नोभे, तस्माद्वस्तु त्रयात्मकम्" ।।१।। "तथा ! घटमौलिसुवर्णार्थी, नाशोत्पत्तिस्थितिष्वलम् , शोकप्रमोदमाध्यस्थ्य, जनो याति सहेतुकम् ॥२॥" यथा च एकस्या अङ्गुलेः स्थायिन्याः पूर्वस्थितिसरलभावाभावो वक्रतासम्भवश्च, एवं त्रिभुवनभवनोदरविवरवर्तिपदार्थसार्थे उत्पादव्ययध्रौव्यभावं पश्यन्तु शेमुषीमुख्याः । ततः सिद्धं त्रयात्मकं वस्तुतत्त्वम् । तथा च प्रयोगः विवादास्पदं वस्तु, नित्यानित्यसत्त्वासत्त्वसामान्यविशेषाभिलाप्यानभिलाप्याद्यात्मकम् , तथैवास्खलत्प्रत्ययेन प्रतीयमानत्वात् । यद् यथैवास्खलत्प्रत्ययेन प्रतीयमानं तत्तथैव दृष्टम् , यथा घटो घटरूपतया प्रतीयमानो घट एव, न पटः, तथैव चास्खलत्प्रत्ययेन प्रतीयमानं वस्तु, तस्मान्नित्यानित्याद्यात्मकम् । न चात्र स्वरूपासिद्धो हेतुः, तथैवास्खलत्प्रत्ययेन प्रतियमानत्वस्य सर्वत्र वस्तुनि तिष्ठमानत्वात् , नहि स्वरूपपररूपाभ्यां भावाभावात्मकत्वेन द्रव्यपर्यायरूपादिभिर्नित्यानित्याद्यात्मकत्वैश्च सर्वस्मिन्पदार्थे प्रतिभासः कस्यचिदसिद्धः । तत एव न सन्दिग्धासिद्धोऽपि, न खल्वबाधरूपतया प्रतीयमानस्य वस्तुनः सन्दिग्धत्वं नाम । नापि विरुद्धः, विरुद्धार्थसंसाधकत्वाभावात् , न ह्येकान्तेऽपि तथैवास्खलत्प्रत्ययप्रतीयमानत्वमास्ते, येन विरुद्धः स्यात् । नापि पक्षस्य प्रत्यक्षादि
१ 'यद्' इत्यत आरभ्य 'प्रतीयमानत्वस्य' इतियावत् पाठः प्रथममुद्रितपुस्तके नास्ति ।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org