________________
अष्टमः प्रकाशः ]
१३३ भवितुमर्हन्ति, तस्मादुत्पादादिमत्त्वं सत्त्वम् । यदुवाच वाचकमुख्यः-"उत्पादव्ययध्रौव्ययुक्तं (वस्तु) सत्" । पारमर्षमपि-'उप्पनेइ वा विगमेइ वा धुवेइ वा' इति । तत्र द्रव्यपर्यायात्मकमितिभणनेन द्रव्यैकान्तपर्यायैकान्तवादिपरिकल्पितविषयव्युदासः । आत्मग्रहणेन चात्यन्तव्यतिरिक्तद्रव्यपर्यायवादिकणादयोगाभ्युपगतवस्तुनिरासः । यतः श्रीसिद्धसेनः-"दोहिं वि नएहिं नीयं । सत्थमुलू. एण तह वि मिच्छत्तं । जं सविसयप्पहाणत्तणेण अन्नुन्ननिरविक्खा ॥ १ ॥” इति । अथेत्थमाचक्षीथाः न द्रव्यपर्यायात्मकं परमार्थसत् , एकान्तनित्यानित्यवस्तुवदनर्थक्रियाकारित्वात् , तेन च किम् , यतः-अर्थक्रियार्थी सर्वोऽपि विपश्चित् , एतच्चार्थक्रियाकारित्वं नित्यानित्यात्मकेऽपि न घटासंटङ्कमारोहति, यतः- "प्रत्येकं यो भवेदोषो द्वोभावे कथं न सः” तस्मादुत्पादव्ययस्थेममहिमाऽनर्थक्रियाकारित्वेन न वस्तुनि वास्तवी" इति चेत् ?, न; पूर्वोत्तराकारपरिहास्वीकारस्थितिलक्षणपरिणामेनास्य नित्यानित्यात्मकस्य वस्तुनोऽर्थक्रियोपपत्तेः। यत्तोऽस्मन्मते न कूटस्थनित्यस्वरूपद्रव्यरूपं वस्तु नाप्येकान्तानित्यपर्यायरूपं नोभयरूपं वस्तु, येन पक्षद्वयभाविदोषावकाशशङ्का, किन्तु स्थित्युत्पादव्ययात्मकं शबलं जात्यन्तरमेव वस्तु, तेन तत्तत्सहकारिसन्निधाने क्रमेण युगपद्वा तां तामर्थक्रियां कुर्वत्सहकारिकृतामुपकारपरम्परामुपजीवच्च जैनमतानुसारिभिरनुश्रियते । ततः सिद्धमुत्पत्तिव्ययध्रौव्ययुक्तमर्थक्रियाकारि वस्तु । ननु कथं वस्तुन्येकसामयिकमन्योन्यविरुद्धं परिकल्पयितुं न्याय्यमित्याशङ्कायां वदन्ति सुरयः-गोरसादिवदिति । यथा गोरसे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org