________________
१३०
[ श्रीवीतरागस्तोत्रे मुह्यति । मीमांसामांसलमतिर्मीमांसकोऽपि सर्वज्ञापलापं प्रलपन् संशयज्ञानमेकमनेकाकारं प्रतिजानानो नानेकान्तं प्रतिक्षिपति । नास्तिकस्तु महापापी, तत्कथयाप्यलं कलाकौशलशालिनाम् ।
ननु ताथागतादीनामुपपत्त्या साम्मत्यं चार्वाकस्य तु वराकस्योपेक्षामुपक्षिप्तवान् , तदत्र मीमांसामांसलमतेर्मीमांसकस्य किमिति कामपि चर्चा नाकरोदाचार्यः, उच्यते-समस्तमतविक्षेपेण स्वयमेव प्रकारान्तरेणानेकान्तमतं प्रतिष्ठमानं तं प्रति प्रतिपत्त्युपपत्तिः पिष्टमेव पिनष्टीति नास्ति पर्यनुयोगावसरः । ततः सिद्धं सर्वमतसम्मतमनेकान्तम् । यत एव चानेकान्तात्मकं वस्तूपपत्तिक्षम तत. स्तत्सत्त्वमप्यनेकान्तात्मकमेवेति उत्पादयन् (उपपादयन्) अधुना सर्वमतप्रपन्नानेकान्तयुक्त्या वस्तुनः परमार्थसत्त्वमाहतेनोत्पादव्ययस्थेमसम्भिन्नं गोरसादिवत् । त्वदुपज्ञं कृतधियः, प्रपन्ना वस्तुतस्तु सत् ॥१२॥
ते कारणथी बुद्धिमान पुरुषो सत् पदार्थ मात्रने आपना कह्या मुजब गोरसनी जेम उत्पाद, व्यय अने ध्रौव्यथी सम्मिश्र-मळेला माने छे. (१२) विशेषार्थः" उत्पाद व्यय-ध्रौव्ययुक्तं सत्"
। तत्त्वार्थाधिगमसूत्रम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org