________________
१२८
[ श्रीवीतर गस्तोत्रे रिति” । यतो जीवोऽनादिनिधनः सत्त्वे सत्यहेतुकत्वात् , कर्मापि प्रवाहतोऽनादिमत् , ततो जीवकर्मणोरनादिमानेव संयोगोधर्मास्तिकायाकाशसंयोगवदिति प्रथमपक्षोक्तदूषणानवकाशः । योऽपि द्वितीयपक्षोऽभिहितोऽनादित्वात् संयोगस्य वियोगाभाव इति, सोऽप्य. समीचीनः, तथाऽदर्शनात् , यथा च काञ्चनोपलयोः संयोगोऽनादिसन्ततिगतोऽपि क्षारमृत्पुटपाकादिद्रव्यसंयोगोपायतो विधटमानो दृष्टस्तथा जीवकर्मणोरपि ज्ञानदर्शनचारित्रोपायतो वियोग इति न कश्चिद्दोषः । अथ यद्यनादि सर्व कर्म ततस्तस्य जीवकृतत्वानुपपत्तिर्जीवकृतत्वेऽनादित्वविरोधात् , तदसम्यक् , वस्तुप्रत्यनवबोधात् ; तथाहि-जीवेन तथा तथा मिथ्यादर्शनादिसव्यपेक्षेण तदा तदुपादीयते कर्म यथा तेन जीवेन कृतमित्युच्यते । तच्च तथाप्रवाहापेक्षया चिन्त्यमानमादिविकलमित्यनादि । निदर्शनं चात्र कालः, यथाहि यावान् अतीतकालम्तेनाशेषेण वर्तमानत्वमनुभूतम् , अथ चासौ प्रवाहतोऽनादिः, एवं कर्मापीति । यदप्युक्तम्-मुक्तस्यापि बन्धप्रसङ्गो विशेषाभावादिति, तदपयुक्तम् , विशेषाभावासिद्धेः । तथाहि-संसारी जीवः कषादियुक्तस्तद्युक्तश्च कर्मणो योग्यान् पुद्गलानादत्त इति तस्य कर्मबन्धोपपत्तिः । मुक्तस्तुकषायादिपरिणामविकलः, शुक्लध्यानामाहात्म्यतस्तेषां समूलमुन्मूलित्वात् , ततः मुक्त्यवस्थायां कर्मबन्धाप्रसङ्गः । न च वाच्यमेवं सति ताहे निरन्तरमुक्तिगमनतो भव्यानामुच्छेदप्रसङ्गोऽनन्तानन्त. सङ्ख्योपेतत्वात् । इह यद्यदनन्तसङ्ख्योपेतं तत्तत्प्रतिसमयमेकद्वि
. सर्वे, इति प्रत्यन्तरे । २ तथा, इति प्रत्यन्तरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org