________________
अष्टमः प्रकाशः ]
१२७
भिलाषान्तराभावात् । किञ्च-यदुक्तम्-एतावता धर्माधर्मावपि नभोम्भोजनिभौ मन्तव्याविति, तदप्यपाकृतम् । तदभावे सुखदुःखयोनिर्हेतुकत्वात् अनुत्पाद एव स्यात् । अनुत्पाद एव स्यात् । स च प्रत्यक्षविरुद्धः । तथाहि-मनुजत्वे समानेऽपि दृश्यन्ते केचन स्वामित्वमनुभवन्तोऽपरे पुनस्तत्प्रेष्यभावभाबिभ्राणाः, एके च लक्षमम्भरयोऽन्ये तु स्वोदरदरीपूरणेऽप्यनिपुणाः, एके देवा इव निरन्तरसरसविलाससुखशालिनः, इतरे नारका इवोन्निद्रदुःखविद्राणचित्तवृत्तयः, इत्यतोऽनुभूयमानसुखदुःखनिबन्धनौ धर्माधर्मो स्वीकर्तव्यौ। तदङ्गीकरणे च विशिष्टयोस्तत्फलयो गभूमी स्वर्गनरकावपि प्रतिपत्तव्यौ, अन्यथाऽर्द्वजरतीयन्यायप्रसङ्गः स्यात् । एवं च पुण्यपापकर्मक्षयोत्थमोक्षपक्षोक्तदूषणमप्यननुगुणं गणनीयम् । न च वाच्यम् , "यदुत ' बन्धः कर्मजीवसंयोगलक्षणः' स आदिमान आदिरहितो वा ?, तत्र यदि प्रथमो विकल्पः, ततो विकल्पत्रयप्रसङ्गः, किं पूर्वमात्मनः प्रसूतिः पश्चात् कर्मणः, यदि वा पूर्व कर्मणः पश्चादात्मनः, आहोस्वित् युगपदुभयस्येति; किञ्चातः ?, सर्वत्रापि दोषः । तथाहि-न तावदात्मनः पूर्वं प्रसूतिः, निर्हेतुकत्वात् व्योमकुसुमवत् , नापि कर्मणः प्राक् प्रसूतिः, कर्तुरभावात् , न चाकृतं कर्म भवति, युगपत्प्रसूतिरप्ययुक्ता कारणाभावात् । न चानादिमत्यात्मनि बन्धो घटामटाट्यते बन्धकारणाभावात् गगनस्येव, इत्थं चैतदङ्गीकर्तव्यमन्यथा मुक्तस्यापि बन्धप्रसङ्गो विशेषाभावात् , तथा च सति नित्यमुक्तत्वात् मोक्षानुष्ठानवैयर्थ्यमिति । अथ द्वितीयः पक्षम्तर्हि नात्मकर्मवियोगो भवेदनादित्वादात्माकाशसंयोगवदिति मोक्षानुपपत्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org