________________
१२६
[ श्रीवीतरागस्नोत्रे वपूरूपपरिणति चेत् ?, ततः सा सर्वकालं कस्मान्न स्यात् ?, किमपि कारणान्तरमाश्रित्योत्पद्यत इति चेत् ?; तदा तत्कारणान्तरं जन्मान्तरागतात्मचैतन्यमिति वितर्कयामः, तस्यैव वपूरूपपरिणतिजन्यचैतन्यानुरूपोपादानकारणत्वात् , तदभावे वपूरूपपरिणतौ सत्यामपि मृतदशायां भूतसद्भावेन चलनादिक्रियाऽनुपलम्भात् । तन्न वपूरूपपरिणतिजन्य चैतन्यम् , किन्तु सैव तज्जन्येति क्षोदक्षमं लक्षयामः । अथ न प्रत्यक्षादन्यत् प्रमाणम् । न च तेनागमनगमनादिकं भवान्तराचैतन्यस्योपलभामहे, तेन तल्लक्ष्याण्येव भूतानि तद्धेतुतया निर्दिशाम इति; तदप्यसत् । यतः केवलप्रत्यक्षाश्रयेण देशकालस्वभावविप्रकृष्टानां मेरुभवत्पितामहपरमाण्वादीनाप्यभावप्रसङ्गः, तेन च भवदादीनामप्यनुत्पत्तिः इत्यतो बलात्कारेणैवानुमानादीनि प्रमाणानि प्रतिपत्तव्यानि । सन्ति चानुमानान्यनेकशः, तथाहि-अस्ति कश्चिदेहे तदतिरिक्तश्चतनः; सुख्यहं दुःख्यहमित्याद्यनुभवस्यान्यथानुपपत्तेः । यदि च स न स्यात् , तदा सुखाद्यनुभवोऽपि न भवेत् , यथा मृतशरीरे । तथा हिताहितप्राप्तिपरिहारचेष्टा प्रयत्नपूर्विका विशिष्ट. क्रियात्वात् स्थक्रियावत् । यश्चास्य प्रयत्नस्य कर्ता सोऽयमस्मत्सम्मतश्चेतनः । न च निरुक्तियुक्तिप्रतिहतेन भवता इह भव एव देहा. तिरिक्तः कश्चिदस्ति न त्वमुष्मिन्निति विप्रतिपत्तव्यम् , जन्मान्तरागामुकस्यैवास्य प्रमाणप्रतिष्ठितत्वात्। तद्यथा-तदहर्जातबालकस्याद्यस्तन्याभिलाषः पूर्वाभिलाषपूर्वकः, अभिलाषत्वात् द्वितीयदिवसादिस्तन्याभिलाषवत् । तदिदमनुमानमाद्यस्तन्याभिलाषस्याभिलाषान्तरपूर्वकत्वमनुमापयदर्थापत्त्या परलोकागामिजीवमाक्षिपति, तजन्मन्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org