________________
अष्टमः प्रकाशः ]
१२५
महद्भूतानि पुनः किं रूपाणि चैतन्यं कर्तुमारभेरन् । चैतन्यवन्ति तद्विनाकृतानि वा ? यदि प्रथमः पक्षस्तदा विकल्पद्वयमुदयते, तेभ्यस्तच्चैतन्यं व्यतिरिक्तमव्यतिरिक्तं वा व्यतिरिक्तं चेत् ; ततो न शरीरेष्विव महद्भूतेष्वप्यवस्थितम् भूतविसदृशमेव स्वहेतुभव - स्थापयति, इति स्ववचसैवात्मानमनुमन्यमानः किमिति कुविकल्पकल्पनेन स्वं क्लेशयसि । अथाव्यतिरिक्तम्, एवं सति सर्वमहद्भूतान्येकतां धारयन्ति, एकचैतन्याभिन्नत्वान्निजस्वरूपवत् । अथ पृथक्स्वस्वचैतन्याभिन्नानां तेषां नायं प्रेरणावकाश इति मन्येथाः, तदपि न । यतस्तज्जन्यनरशरीरेऽपि भूतोत्पाद्यश्चैतन्यचतुष्टयप्रसङ्गः । अथ चत्वार्यप्येकीभूय बहवस्तन्तव इव पटं महत्तरचैतन्यमुत्पादयेयुरिति ब्रूषे, तदा तच्चैतन्यं किं भूतसंयोग उत तज्जन्यमन्यदेव किञ्चिदिति वाच्यम् । भूतसंयोगश्चेत् ?, तदयुक्तम्, चैतन्यानामन्योन्यसंयोगासिद्धेः, अन्यथा प्रचुरतरचैतन्यान्येकीभूय महत्तमं चैतन्यं जनयेयुः । न चैतद् दृष्टमिष्टं वा । अथ भूतोत्पाद्यमन्यदेव किञ्चिदित्येतस्मिन्नपि किं तेषामन्वयोऽस्ति न वा ? अस्ति चेत् ; तदा पूर्ववत् भूतजन्यचैतन्यचतुष्टयतापत्तिः, अथ नास्ति, तदप्यसङ्गतम् ; निरन्वयोत्पत्तेर्युक्तिरिक्तत्वात् । तस्मान्न सचैतन्यानि चैतन्यमुत्पादयेयुर्भूतानि । न च तद्विनाकृतानि तेषामत्यन्तविसदृशत्वेन चैतन्योत्पत्तिविरुद्धत्वात्, अन्यथा सिकताभ्योऽपि तैलमुत्पद्येत । अन्यच्च -भूतनिचयमात्रजन्यं चैतन्यं तत्परिणतिविशेषजन्यं वा स्याद् , न तावत्प्रथमः पक्षः क्षोदक्षमः, अवनिजीवनपवनदहन योजनेऽपि चैतन्यानुपलम्भात् । द्वैतीयिकपक्षे पुनः कः परिणामविशेष इति पृच्छामः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org