________________
१२४
[ श्रीवीतरागस्तोत्रे
J
"
"
नहि कोऽप्यहं सुखीत्यादिप्रत्ययं देहे विधत्ते, किन्तु देहातिरिक्ते कस्मिंश्चित् इत्यतः प्रतीयते - सुख्यहमित्याद्यन्तर्मुखप्रत्ययो जीवगोचर एव, न भूतगोचरः; बहिर्मुखत्वेनानवभासात् । यच्चोक्तम्वपूरूप परिणतानि महद्भूतान्येव चैतन्यमुद्बोधयन्तीत्यादि । तदप्यविकलविकलताविलसितम् । यतः - यदि “ हि महद्भूतेभ्य एव चैतन्यमुन्मीलतीत्याद्यसङ्गतिसङ्गतमपि स्वेच्छाचलनाद्यन्यथानुपपत्तिप्रतिहतेन भवता कल्पनीयम्", तदा - " चैतन्यमेव जन्मान्तरादुत्पत्तिस्थानमागतं चतुर्भूतभ्रमाधायि देहमुत्पादयेत् भूयो भवान्तरगामुकं सत्तत्त्यजेत् तेन चाधिष्ठितं स्वेच्छाविहारादिक्रियां कुर्यात्, तद्विनिर्मुक्तं भूयो दारुवदासीत, इत्यात्मजन्यमेव वपुः, न पुनरात्मा भूतसमुदयसंयोगजन्यदेहजन्य " इत्यकाल्पनिकमेवादरीतुमुदारतरं विभावयामः । सचेतनस्यात्मनः कर्मावष्टब्धतयाऽन्याऽन्यभवभ्रमान्यान्यदेह सम्पादनयोर्घटनाघटितत्वात् । अथेत्थमभिदधीथा:जन्मान्तरादुत्पत्तिप्रदेशमागच्छन्नात्मा न प्रत्यक्षेण लक्ष्यते । नन्वेवं 'वपूरूपधारणद्वारेण भूतान्यपि चैतन्यमुन्मीलयन्ति न साक्षाल्लक्ष्यन्ते ' इति भवत्पक्षेऽपि पक्षपातं विना सामान्यम् । भूतेषु वपूरूपपरिण तेष्वेव चैतन्यमुपलभामहे नान्यदेत्यन्यथानुपपत्त्या भूतजन्यमेव चैतन्यं कल्पयामः इति चेत् ; तर्हि कथं मृतावस्थायां भूतेषु तदवस्थेष्वेव चैतन्यं नोपलभ्यते । वपुरूपविवर्तश्च कादाचित्कत्वान्यथानुपपत्त्याऽवश्यं कारणान्तरापेक्षीत्यतस्तत्सम्पादनसमर्थं जन्मान्तरायातात्मलक्षणं चैतन्यमेव मन्महे । अन्यच्च - आत्मा तावत्पूर्वशुभाशुभचैतन्ययोगाद्देहसम्पादनायोत्तिष्ठते, इति सौष्ठवप्रष्ठमेव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org