________________
अधमःप्रकाशः ।
१२३ महद्भूतान्येव स्वस्वरूपजडस्वभावव्यतिरिक्तं चैतन्यमुद्बोधयन्ति, तच कायाकारविवर्तेप्ववतिष्ठते, तदभावे पुनर्भूतेष्वेव लीयते, इति न कश्चिद्भतोद्भुतचैतन्यव्यतिरिक्तश्चैतन्यहेतुतया परिकल्प्यमानः परलोकयार्या जीवोऽस्ति, दृष्टहान्यदृष्टपरिकल्पनाप्रसङ्गात् । एवं च सति परलोकोऽपि प्रत्युक्त एवावगन्तव्यः । परलोकयायिनोऽभावे परलोकस्यानुपपन्नत्वात् , सति हि धर्मिणि धर्माश्चिन्त्यमानाः समीचीनतामुपचिन्वन्ति । किच्च-परलोकयायिजीवसुखदुःखनिबन्धनौ धर्माधर्मावप्याकाशकुशेशयविकाशनी काशौ । तथा तत्फलभोगभूमिप्रतिमस्वर्गनरकादिकल्पनमप्यलीकसङ्कल्पविरूसितम् । विना हि धर्माधमौ कुतस्तत्फलभोगभूमिसम्भवः । यच्चवमप्यैकान्तिक पुण्यपापक्षयोत्थमोक्षपक्षपातिता सा विगलितदृशश्चित्रशालोपवर्णन मिव करय नाम न हास्यावहेति यत्किञ्चिदेतत् । अन्न प्रतीविधीयते-योऽयमतिप्रमाणप्रवीणेन भवता आत्मनिरासाय प्रत्यक्षप्रमाण गोचरातिक्रान्तत्वादिति हेतुरुपन्यस्तः, स एव तावद सिद्धः, जीवस्य स्वसंवेदनप्रत्यक्षविषयत्वात् , तथाहिमुख्यहं दुःस्यह मित्यादिस्वसम्बद्धस्वसंवेदनप्रत्यक्षेणावगम्यते जीवः । सर्वकालं निधित्वेन च नायं प्रत्ययो भ्रान्तः । “चैतन्यान्वितदेहलक्षण पुरुषगोचरत्वेऽपि गौरोऽहं स्थूलोऽहमित्यादिप्रत्ययः सङ्गच्छते, अतः कृतं कायातिरिक्तात्मकल्पनाक्लेशेनेति चेत् ? " न, भूतानां स्वसंवेदनगोचरत्वे बहिर्मुखैव स्वसंवित्तिर्भवेत् , यथा पटोऽयमिति बहिर्मुखः प्रत्ययः, तथा सुख्यहमित्यादिरपि; यदि शरीरगोचरो भवेत् , ततोऽयं सुखीत्येवं बहिर्मुखः स्यात् , अन्तर्मुखंश्चायमनुभूयते!
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org