________________
१२२
[ श्रीवीत सगस्तोत्रे अव०-इच्छन्-तथा हे वीतराग! प्रधानं प्रकृतिम् , सत्त्वाद्यैः सत्वरजस्तमोलक्षणेविरुद्धैर्गुणैर्गुम्फितं मिश्रितमिच्छन् सङ्ख्यावतां-विदुषां मुख्यः साङ्खयोऽनेकान्तं न प्रतिक्षिपेत् ॥१०॥
वि०-हे वीतराग ! सङ्ख्यावतां मुख्यो सुख्याभिधेयनामधेयः साङ्ख्यः प्रधान प्रकृतिं महदाद्युत्पादमूलहेतु सत्त्वरजस्तमोभिर्गुणैरन्योन्यविरोधदुर्द्धरैपि ग्रथितमविरुद्धतयाभिदधानः स्वात्मनो नानेकान्तमतवैमुख्यमाख्याति, तन्मते हि प्रकृतिरेका महदाद्यात्मिका अनेकाकारा अभ्युपपद्यते (अभ्युपगम्यते)। ततस्साङ्ख्योऽप्यनेकान्तमतसम्मुख एव ।
ननु भोः ! क एष आहेतमतपाण्डित्यविशेषमाविष्कुर्वन् दुर्गतसौगताद्यङ्गीकृतचित्रज्ञानादिदृष्टान्तावष्टम्भेन स्याद्वादवादं स्पष्टयन्नाचष्टे ?, प्रथमं तावज्जीव एव नास्ति, व तदाश्रितश्रेयोऽश्रेयोऽनेकान्तमतस्वर्गापवर्गसर्गसङ्कथा; तथाहि-सकलेऽप्यस्मिन्नविकले जीवलोके न खलु भूतचतुष्टयव्यतिरिक्तं किमपि वस्त्वन्तरमस्ति, प्रत्यक्षप्रमाणगोचरातिक्रान्तत्वात् , यद्यदेवं तत्तन्नास्ति, यथा तुरङ्गमोत्तमाङ्गशृङ्गम् । न च वाच्यम्-प्रतिप्राणिप्रसिद्धस्य चैतन्योपलम्भस्वान्यथानुपपत्त्या तद्धतुः कश्चिदवश्यं परिकल्पनीयः । भूतचतुष्टयम्यैव तद्धेतुत्वेनाविगानात् । अथेत्थमाचक्षीथाः-कथं जडात्मकानि भूतानि तद्विलक्षणं बोधरूपं चैतन्यं जनयेयुरिति । तदपि न, न खल्वेकान्ततः कारणारूपमेव कार्यमुत्पद्यते, अननुरूपस्यापि दर्शनात् , यथा मद्याङ्गेभ्यो मदशक्तिः । एवं च वपूरूपपरिणतानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org