________________
[ श्रीवीतरागस्तोत्रे अनु०-नाना-विचित्र-आकार सहित विज्ञान एक आकारवाळूछे, एम स्वीकारतो प्राज्ञ बौद्ध अनेकान्तवादनु उत्थापन करी शकतो नथी. (८)
प्रभोः पुरः परतीथिकानां यथास्थितं विज्ञप्य "क्रुद्धः प्रभुद्धिषां सेवकानामपि न हित" इति पुनः प्रसादनाय प्रकारान्तरेण विज्ञपयति
अव०-विज्ञा०-विज्ञानस्यैकमाकारं स्वरूपम् , नानाविचित्रा य आकारा घटादीनां तैः करम्बितं मिश्रमिच्छबभिलषन , तथागतो बौद्धोऽनेकान्तं-स्याद्वादम् न प्रतिक्षिपेदुत्थापयेत् । कथम्भूतः ?, प्राज्ञो ज्ञाता, प्रकर्षणाज्ञो मृोऽपि यतः स्याद्वादं स्वीकुर्वस्त्वां नोपास्ते ।। ८ ।।
वि०-विज्ञानस्य संविद एकमेव स्वरूपं नानाचित्रपटाद्यनेकाकारमिश्रं समभिलषन् बौद्धो नानेकान्तं निराकुर्यात् , अत एव प्राज्ञः, “ ज्ञानाद्वैतवादिनां हि मते एकमेव चित्रज्ञानं ग्राहकं तस्य चांशा ग्राह्याः, इत्येकस्यैव ग्राह्यत्वं ग्राहकत्वं चाभ्युपगच्छन् कथमनेकान्तवादं निराकुर्यात्" । यदि प्रकर्षणाज्ञो न स्यात् । यत एकत्र चित्रपटीज्ञाने नीलानीलयोः परस्परविरुद्धयोरप्यविरोधेनोररीकारात् । तस्मात्ताथागतैरभ्युपगत एव स्याद्वादवादः ।
नैयायिकवैशेषिकयोरपि सम्प्रति प्रतिपत्तिमाहचित्रमेकमने च, रूपं प्रामाणिकं वदन् । योगो वैशेषिको वाऽपि, नानेकान्तं प्रतिक्षिपेत् ॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org