________________
अटमः प्रकाशः |
११९
सामर्थ्येनानेकान्तरूपमस्तु विशेषाभावादिति । यदप्युक्तम्- बाधकं प्रमाणमस्ति - भेदाभेदौ नैकाधिकरणावित्यादीति, तदप्यनुपपन्नम्, पक्षस्य प्रत्यक्षेण बाध्यमानत्वाद्धेतोश्च कालात्ययापदिष्टत्वात्, अनुष्णोऽग्निर्द्रव्यत्वाज्जलवदित्यादिवदिति । भेदाभेदयोरेका धिकरणत्वेन प्रत्यक्षबुद्धौ प्रतिभासनात् न चानयोर्विरुद्धधर्मयोरपि सतोः कापि क्षतिरीक्ष्यत इति पर्यालोच्य स्तुतिकृदपि विरोधाभावमाह - विरुद्धेत्यादि । हि यस्माद्विरुद्ववर्णसम्बन्धो मेचकवस्तुषु मिश्रवर्णपदाथैषु षु दृष्टः परं न तत्रैतद् दूषण कण घोषणान्वेषणापि कर्तुं पार्यते । यदि तत्रापि वागूडिण्डिमाडम्बरप्रचण्डपाण्डित्यपाटवनाट्यशीलैः प्रत्यक्षादिप्रमाणोपपन्ने कापि युक्तिः प्रपञ्च्यते, तदा एवमप्यस्तु । अनुष्णोऽग्निर्द्रव्यत्वात् जलवत् । अथैतत्प्रत्यक्ष बाधित पक्षानन्तरं निर्दिश्यमानत्वेन कालात्ययापदिष्टम् । आः परमबन्धो ! पिब पीयूयूषम्, वयमपि हस्तमुत्क्षिप्य एवमेव बदाम: - मेचकवस्तुवत्प्रत्यक्षोपपनेऽप्यनेकान्ते का कुयुक्तििानिरुक्तिप्रपञ्चचातुरी, तस्माद्विरोश्रादिदूषणवारणगणाधर्षणीयः परां प्रौढिरूढिं प्रपन्नोऽनेकान्त केशरी ।
ननु भोः ! सभ्याः ! निभालयन्तु कौतुकम् । एते बौद्धादयः स्वयमभ्युपगम्यापि स्याद्वादवादं निराकुर्वन्तः किं न कुर्वन्ति स्वाधिरूढशाखा मोटनन्यायम् ? एतदेव पराभ्युपगतानेकान्तवादसंवादद्वारेण दृष्टान्तयुक्त्या स्पष्टयन्नाह - विज्ञानस्यैकमाकारं, नानाकारकरम्बितम् । इच्छंस्तथागतः प्राज्ञो नानेकान्तं प्रतिक्षिपेत् ॥ ८ ॥
Jain Education International
"
For Private & Personal Use Only
www.jainelibrary.org