________________
[ श्रीवीतरागस्तोत्रे
"
1
माणव्यवहारस्य लोके प्रमाणेऽपि सुप्रसिद्धत्वादिति । यच्चोक्तम्" सिद्धोऽप्यसिद्धः स्यादित्यादि ", तदपीष्टमेव । पररूपापेक्षया सिद्धस्याप्यासिद्धरूपताया अभ्युपगतत्वादिति, यच्चोक्तम् - "सर्वज्ञोऽप्यसर्वज्ञः स्यादिति ", तदपीष्टमेव । असर्वज्ञरूपेण सर्वज्ञस्याप्यस र्वज्ञताया अभ्युपगतत्वात् इति, प्रकारान्तरेण च तस्यासर्व्वज्ञता न संभवत्येव प्रमाणबाधनादिति यच्चोक्तम्- “ येन प्रमाणेन सर्वस्या नेकान्तरूपता प्रसाध्यते तस्य कुतोऽनेकान्तरूपतासिद्धिः स्यादित्यादि" । तत्रोच्यते - प्रमेयं हि द्विविधमचेतनं चेतनं च तत्राचेतनं स्वपराध्यवसायविकलं न स्वस्यैकान्तरूपतामनेकान्तरूपतां च परिच्छेत्तुम् अलम् । चेतनेन तत्रानेकान्तरूपता परिच्छिद्यते । चेतनं तु स्वस्याप्यनेकान्तरूपतां परिच्छेदयितुं समर्थम्, न च तत्रापरं प्रमाणमपेक्ष्यते, येनानवस्था स्यात् । तथाहि - चित्ररूपं वस्तु येन प्रत्यक्षेणानुमानेन वा परिच्छिद्यते तत् स्वरूपापेक्षयात्मनो भावं पररूपा पेक्षया चाभावम् परिच्छिनत्ति, अन्यथा यथावदसङ्कीर्णखरूपम्य ग्राहकं न स्यात्, न चैवम्, व्यावृत्ताव्यावृत्तस्वरूपम्य प्रमाणस्य सिद्धरूपत्वादिति । यस्य तु कस्यचित् तत्रापि स्वदुरागमाहितवासनावशादेकान्त समारोपः, सोऽपि तस्य न्यायान्तरान्निराकर्तव्यः । तथाहिधूमादिलिङ्गस्य यथा स्वसाध्यं प्रति गमकत्वम्, तथा साध्यान्तरं प्रत्यपि, उतान्यथेति । यदि गमकत्वमेवाङ्गीक्रियते, तदा साध्यान्तरस्यापि तत एव सिद्धेर्लिङ्गान्तरकल्पना वैफल्यं स्यात् ततः सर्वस्यापि साध्यस्य सिद्धेरिति । उतान्यथा, तर्हि यथैकं लिङ्गं गमकत्वागमकत्वरूपेणानेकान्तरूपम्, तथा सर्वं वस्तु स्वपरकार्यकरणसामर्थ्या
११८
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org