________________
अष्टमः प्रकाशः ]
११७ संशयोऽपि न युक्तः, भेदाभेदयोः स्वरूपेण प्रतीयमानत्वात् , एकस्मिन् भेदाभेदाप्रतीतौ हि संशयो युक्तः, कचित् प्रदेशे स्थाणुपुरुषत्वाप्रतीतौ तत्संशयवत् । चलिता च प्रतीतिः संशयः, न चेयं चलिता। तथा दृष्टहानिरदृष्टकल्पना च न स्यात् । भेदाभेदात्मकस्य वस्तुनः प्रत्यक्षादिप्रमाणबुद्धौ प्रतीयमानत्वात् , तत एवाभावोऽपि न युक्तः । यच्चोक्तम्-नानावस्तुधर्मापेक्षयेत्यादि, तदसत्यम् , न खलु नानावस्तुधर्मापेक्षयैकस्यानेकान्तात्मकत्वमङ्गीक्रियते; येन सिद्धसाधनं स्यात् । अपि त्वेकस्यैव वस्तुनः स्वधर्मापेक्षया । न च तत्र विरोधादिदोषानुषङ्गस्तस्य प्रागेव निराकृतत्वात् । यच्चोक्तम्-क्रमेणेत्यादि न तद्युक्तम् । क्रमेणाक्रमेण चानेकान्तस्याभ्युपगतत्वात् । क्रमभाविधर्मापेक्षया हि क्रमेणाक्रमभाविधर्मापेक्षया चाक्रमेणेति । यच्चोक्तम्-अनेकधर्मान् वस्तु किमेकेन स्वभावेन व्याप्नुयान्नानास्वभावैर्वेत्यादि । तत्र नैकेन स्वभावेन नानास्वभावैर्वा भिन्नवस्तु भिनान् स्वभावान् खतो व्याप्नुयादिति जैनो मन्यते, किं तर्हि स्वस्वकारणकलापादनेकस्वभावात्मकं मतमिति । यच्चोक्तम् - "जलादेरप्यनलादिरूपता स्यादित्यादि, " तदप्यनुपपन्नम् । जलादेहि स्वरूपापेक्षया जलादिरूपता, न पररूपापेक्षया, ततो न जलादौ जलार्थिनोऽनलादिरूपस्य दर्शनम् , यतस्तत्र प्रवृत्तिर्न स्यात् प्रेक्षापूर्वकारिण इति । यच्चोक्तम्-" प्रमाणमप्यप्रमाणं स्यादित्यादि, " तदपीष्टमेव । प्रमाणस्य स्वरूपापेक्षया प्रमाणरूपताया; पररूपापेक्षया चाप्रमाणरूपतायाः, स्याद्वादिनामिष्टत्वात् । ततो न लोकप्रसिद्धप्रमाणाप्रमाणव्यवहारविलोप: स्यात् , उक्तन्यायेन प्रमाणाप्र
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org