________________
[ श्रीवीतरागस्तोत्रे
वदबलवद्भावो दृश्यते । नहि यथा नकुलेन बलवता सर्पस्य विधातः क्रियमाणो दृश्यते तथा भेदेनाभेदस्याभेदेन च भेदस्य विधातो दृश्यते, तथाप्रतीतेरभावात् । भवतु वा कश्चिद्विरोध इति, तथाप्यसौ सर्वथा कथञ्चिद्वा स्यात्, गत्यन्तराभावात् । न तावत् प्रथमपक्षो घटते, शीतोष्णस्पर्शयोरपि प्रमेयत्वादिना विरोधासिद्धेः । एकाधारत्वेन चैकस्मिन्नपि हि धूपदहनादिभाजने क्वचित् प्रदेशे शीतस्पर्शः क्वचिच्चोष्णस्पर्शः प्रतीयत एव, अथानयोः प्रदेशयोर्भेद एवेष्यते, भवतु नामानयोर्भदः, धूपदहनाद्यवयविनस्तु न भेदः, न चास्य शीतोष्णस्पर्शाधारता नास्तीति वक्तुं युक्तम् , अध्यक्षविरोधात् । तस्मान्न सर्वथा भावानां विरोधो घटते । कथञ्चिद्विरोधस्तु सर्वभावेषु तुल्यो न बाधकः । यच्चोक्तम्-वैयधिकरण्यं स्यादिति, तदप्यसत्यम् । निर्बाधं प्रत्यक्षबुद्धौ भेदाभेदयोरेकाधिकरणत्वेन प्रतिभासनात् । न खलु तथाप्रतीयमानयोर्वैयधिकरण्यम् , रूपरसयोरपि तत्प्रसङ्गात् । उभयदोषोऽपि न घटते, प्रतीयमाने कथमुभयदोषो नाम ?, नानादोषोऽपि न स्यात् । यथैव हि घटादौ भेदोऽनुभूयते तथाऽभेदोऽपीति कथं नानात्वदोषः, अत एव सङ्करव्यतिकरावपि न स्तः । भेदाभेदयोरेकस्मिन् पदार्थे स्वरूपेण प्रतीयमानत्वात् । यच्चोक्तमनवस्था स्यात् । तदप्यनुपपन्नम् , वस्तुन एव भेदाभेदात्मकत्वाभ्युपगमात् । न पुनर्मेदाभेदयोधर्मयोः पदार्थस्य तु भेदो धर्म एवाभेदस्तु धर्थेवेति कथमनवस्था ?, न चैकान्ताभ्युपगमो दोषाय, सम्यग्नयविषयस्य भेदाभेदस्य च स्याद्वादिभिरभ्युपगतत्वात् ।
१ 'निर्बाधप्रत्यक्षं बुद्धौ' इति प्रत्यन्तरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org