________________
अष्टमः कादशः
११५ सङ्ख्यावदेकस्मिन्पदार्थे सत्त्वासत्त्वयोर्भेदः । न चैकस्मिन् वस्तुनि वस्त्वन्तरमपेक्ष्य द्वित्वादिसङ्ख्या प्रकाशमाना स्वात्ममात्रापेक्षकत्वसझ्यातो नान्या प्रतीयते । नापि सा स्वरूपात् तत्त्वतो भिन्नैवास्यास. येयत्वप्रसङ्गात् । सङ्ख्यासमवायात्तत्वमित्यप्ययुक्तम् , कथञ्चित्तादा. त्म्यव्यतिरेकेण समवायस्यासम्भवात् । तस्मात् सिद्धोऽपेक्षणीयभेदात् सङ्ख्यावत्सत्त्वासत्त्वयोर्भेदः । तथाभूतयोश्चानयोरेकस्मिन् पदार्थे प्रतीयमानत्वात् कथं विरोधः ?, यतो दृष्टान्तो न स्यात् । भ्रान्तेयं प्रतीतिरित्यापि मिथ्या, बाधकस्याविद्यमानत्वात् , विरोधो बाधक इत्यप्यसत्यम् , इतरेतराश्रयानुषङ्गात् । सति हि विरोधे तेनास्या बाध्यमानत्वाद् भ्रान्तत्वम् , ततश्च तद्विरोधसिद्धिरिति । विरोधश्चाविकलकारणस्यैकस्य भवतो द्वितीयसन्निधानेऽसत्त्वान्निश्चीयते, यथोष्णसन्निधाने शीतस्य । न च पर्यायरूपेण भेदस्य सन्निधाने द्रव्यरूपेणाभेदस्याभाव उपलभ्यते। किञ्चानयोर्विरोधः किं सहानवस्थानम्वभावः, परम्परपरिहारस्थितिस्वभावो वध्यघातकस्वभावो वा?, तत्र न तावत्सहानवस्थानस्वभावो घटते ?, मृद्रव्यलक्षणे पदार्थे मृद्रव्यरूपतयाऽभेदम्य घटादिपर्यायरूपतया(च) भेदस्याध्यक्षबुद्धौ प्रतीयमानत्वात् । न च तथाप्रतीयमानयोरप्येकत्र तयोविरोधो युक्तः, रूपरसयोरपि तत्प्रसङ्गात् । परस्परपरिहारस्थितिस्वभावस्तु विरोधो घटादौ भेदाभेदयोः सत्त्वासत्त्वयोर्वा रूपरसयोरिव सतोरेव नासतो
पि सदसतोः सम्भवति । वध्यघातकस्वभावोऽपि विरोधोऽहिनकुलयोरिव बलवदबलवतोः, न च भेदाभेदयोः सत्त्वासत्त्वयोर्वा बल
२- 'सारूप्यातद्वतो' इति प्रत्यन्तरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org