________________
[ श्रीवीतरागस्तोत्र सन्ति-याभिनित्यानित्ये विरोधादयः माध्यते। विरु० हि य. स्माद्विरुद्धानां कृष्णश्वेतादीनां वर्णानाम् , योगः-सङ्करः, मेचकेषु-शबलेषु, वस्तुषु पटादिषु, दृष्टः-प्रत्यक्षेणोपलब्धः ॥७॥
वि०-एकस्मिन् पृथ्वीपृथ्वीधरादौ वस्तुनि नित्यानित्यात्मकरूपं द्वयं न विरुद्धम् । न च विरोधोपलक्षितवैयधिकरण्यादिदोषकलुषम् । कथमिति चेदित्याह-असत्प्रमाणप्रसिद्धः, किमपि न तत्प्रमाणं प्रामाणिकम्मन्यैः प्रमाणी क्रियते, येन विरोधादीनां सिद्धिः साध्यते। तथाहि-यत्तावदुक्तम्-विरोधो बाधकःस्यादिति,तदयुक्तम् । पर्यायरूपतया भेदोऽभ्युपगम्यते, द्रव्यरूपतया चाभेदः, तयोश्चैकत्र रूपरसयोरिव सत्त्वासत्त्वयोरिव वाऽविरोधसिद्धेः प्रतीयमानयोश्च कथं विरोधो नाम, स ह्यनुपलम्भसाध्यः, यथा वन्ध्यागर्भे स्तनन्धयस्य । ननु सत्त्वासत्त्वयोरिवेति दृष्टान्तोऽप्यसिद्ध इति चेत् , तन्न, खद्रव्यक्षेत्रकालभावापेक्षया सत्त्वरूपम्य, परद्रव्यक्षेत्रकालभावापेक्षया चासत्त्व(रूप)स्यैकस्मिन् क्षणे सर्वस्य पदार्थस्य प्रत्यक्षादिबुद्धौ प्रतिभासनात् । न खलु पदार्थस्य सर्वथा सत्त्वमेव स्वरूपम् , स्वरूपेणेव पररूपेणापि सत्त्वप्रसङ्गात् । नाऽप्यसत्त्वमेव, पररूपेणेव स्वरूपेणाऽप्यसत्त्वप्रसङ्गात् । न च स्वरूपेण सत्त्वमेव पररूपेणासत्त्वम्, पररूपेण वाऽसत्त्वमेव स्वरूपेण सत्त्वम् , तदपेक्ष्यमाणनिमित्तभेदात् । स्वद्रव्यादिकं हि निमित्तमपेक्ष्य सत्त्वप्रत्ययं जनयतिपदार्थः । परद्रव्यादिकं त्वपेक्ष्यासत्त्वप्रत्ययम् । इत्येकत्वद्वित्वादि
१-'नाप्य' इत्यत आरभ्य 'प्रसङ्गात्' इतियावत् पाठः प्रथममुद्रितपुस्तके नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org