________________
भटमः प्रकाशः ]
किञ्च । येन प्रमाणेन सर्वस्यानेकान्तरूपता प्रसाध्यते तस्य कुतो नैकान्तरूपतासिद्धिः ?, यदि स्वतः, तर्हि सर्वस्यापि तथा भविष्यति, किं प्रमाणपरिकल्पनाया । अथ परतस्तीनवस्था 16 । किञ्चानेकान्तबाधकं प्रमाणमस्ति, तथाहि-भेदाभेदिको धर्मों नैकाधिकरणौ परस्परविरुद्धधर्मत्वात् , शीतोष्णस्पर्शवदति 17 । तस्मादेकान्तरूपमेव वस्त्विति स्थितम् , विरोधादीनाशङ्कय तान्निराकुर्वन्नाहद्वयं विरुद्धं नैकत्राऽसत्प्रमाणप्रसिद्धितः । विरुद्धवर्णयोगो हि, दृष्टो मेचकवस्तुषु ॥ ७ ॥
अनु०-एज प्रमाणे एक वस्तुने विषे नित्यत्व अने अनित्यत्वादि बे विरुद्ध-धर्मोनुं रहे, ए पण विरुद्ध नथी, प्रत्यक्षादि कोइ पण प्रमाणथी तेमां विरोध सिद्ध थई शकतो नथी; कारण के मेचक काबर-चीतरी वस्तुओने विषे विरुद्ध-वर्णोनो संयोग प्रत्यक्ष देखाय छे. (७)
दृष्टान्तोपनयनमाहुः
अव०-द्वयं० द्वयं नित्यानित्यलक्षणमेकत्र घटादौ न विरुद्धमयुक्तम् , कुतः १, असत्प्रमाणप्रसिद्धितः सतां विद्यमानानां प्रमाणानां युक्तीनामभवात् , ताः काश्चन युक्तयो न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org