________________
११२
[ श्रीवीतरागस्तोत्रे वस्तुधर्मापेक्षया सर्वमनेकान्तात्मकम् , उत तन्निरपेक्षतया प्रत्येक सर्व वस्त्विति ? । प्रथमपक्षे सिद्धसाध्यता, द्वितीयपक्षेऽपि विरोधादिर्दोषः । किञ्च-किं क्रमेण सर्वमनेकान्तात्मकमभ्युपगम्यते योगपद्येन वा ? । प्रथमपक्षे सिद्धसाध्यता, द्वितीयपक्षे तु स एव दोष इति 10 । किञ्चानेकधर्मान् वस्तु किमेकेन स्वभावेन नानास्वभावैर्वा व्याप्नुयादिति । यद्येकेन, तदा तेषामेकत्वं वस्तुनो वा नानात्वं स्यात् , एकस्यैकत्र (2) प्रवेशादिति । अथ नानास्वभावैस्तर्हि तानपि नानास्वभावान् किमेकेन स्वभावेन व्याप्नुयात् नानास्वभावैर्वा ?। यद्येकेन, तदा सर्वधर्माणामेकत्वं वस्तुनो वा नानात्वं स्यात् , अथ नानास्वभावैस्तर्हि तानपि किमेकेन स्वभावेन नानास्वभावैर्वा व्याप्नुयादित्यादि सर्व-वक्तव्यमनवस्था च 11 । किञ्च-यदि सर्वं वस्त्वनेकान्तात्मकमभ्युपगम्यते, तर्हि जलादेरप्यनलादिरूपता, अनलादेर्वा जलादिरूपता भवेत् , तथा च जलाद्यर्थिनो जलादावनलाद्यर्थिनश्चानलादौ प्रवृत्तिर्न स्यात् , अन्योन्यविरुद्धस्यापि धर्मस्य सद्भावात् । को हि नाम विवक्षितार्थे विवक्षितार्थक्रियाकारिरूपमिवाविवक्षितार्थक्रियाकारिरूपमुपलभमानोविवक्षितार्थक्रियार्थी तत्र प्रवरेत प्रेक्षापूर्वकारी । न चैव ! विवक्षितार्थे विवक्षितार्थक्रियाकारिण्येव विवक्षितार्थक्रियार्थिनः प्रवृत्तिदर्शनात्121 किच । प्रमाणमप्यप्रमाणमप्रमाणं प्रमाणं वा भवेत् , तथा च सर्वजनप्रसिद्धप्रमाणाप्रमाणव्यवहारविलोपो भवेत् 13 । किञ्च-सर्वज्ञोऽप्सर्वज्ञः स्यात् 14 । किञ्च-सिद्धस्याप्यसिद्धत्वं स्यात् , 15।
१ स्वभावेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org