________________
अष्टमः प्रकाशः।
वि०-ननु नित्यानित्यभेदाभेदसत्त्वासत्त्वसामान्यविशेषात्मकाभिलाप्यानभिलाप्यात्मके तत्त्वे मन्यमाने दुर्धरविरोधगन्धविधुरता धुरन्धरतां धारयति । तथाहि-यदि भेदस्तीभेदः कथम् ?, अभेदश्वेत्तर्हि भेदः कथं स्यादिति विरोध: 1 । तथा यदि भेदस्याधिकरणं तो भेदस्य न भवेत् , अथाभेदस्य तहिं भेदस्य न स्याच्छीतोष्णस्पर्शवत् , नहि तदेव धूपदहनादिकं शीतं तदेवोष्णमुपलभ्यते, तथाप्रतीतेरभावादिति वैयधिकरण्यम् । तथा येन रूपेण भेदस्तेनाभेदोऽपि, येनाभेदस्तेन भेदोऽपि स्यात् , इति व्यतिकरः “परस्परविषयगमनं व्यतिकरः" इतिवचनात् 3 ! तथा येन रूपेण भेदम्तेनाभेदो येन चाभेदस्तेन भेदोऽपि स्यात् , ( येन रूपेण भेदस्तेन भेदोऽभेदोऽपि, येन चाभेदस्तेनाभेदो भेदोऽपि) इति सङ्करः । " सर्वेषां युगपत्प्राप्तिः सङ्करः" इतिवचनात् 4 । तथा येन रूपेण भेदस्तेनाभेदोऽपि येन चाभेदस्तेन भेदोऽभ्युपगन्तव्यः ( येन रूपेण भेदस्तेन भेदाभेदः, येन चाभेदस्तेनापि भेदाभेदोऽभ्युपगन्तव्यः ) अन्यथा सर्वमनेकान्तात्मकमित्यस्य विरोधानुषङ्गात् । तथा च भेदाभेदावपि प्रत्येकं भेदाभेदात्मको स्याताम् । तत्रापि प्रत्येकं भेदाभेदात्मकत्वपरिकल्पनामनवस्था स्यात् । तथा केन रूपेण भेदः केन चाभेद इति संशयः (भेदाभेदात्मकत्वे वस्तुनोऽभेदात्मकमिदं भेदात्मकं वेति निर्णयाभावात् संशयः) 6। तथा भेदरूपमभेदरूपं वा दृष्टं वस्तु नाभ्युपगम्यते, अदृष्टं च भेदाभेदात्मकं परिकल्प्यते, इति दृष्टहानिरदृष्टकल्पना च स्यात् । तथा च परिकल्पितस्य वस्तुनोऽभाव एव युक्तः 81 किञ्च-किं नाना
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org