________________
अष्टमः प्रकाश:
च सन्तानाभावः स्यात् । नाप्यविद्यमानश्चिरतरविनष्टवत्, नाप्युभयरूपः, उभयपक्षनिक्षिप्तदोषानुषङ्गात् । एवमेकान्तक्षणिकत्वपक्षेऽपि नार्थक्रियाकारित्वं घटाकोटिसंटङ्कमाटीकते । तस्मादेकान्तमभिनिवेशः परतीथिकानां कदाशापाश एव ।
एतदेव निगमयन्नाहयदा तु नित्यानित्यत्वरूपता वस्तुनो भवेत् । यथात्थ भगवन्नैव, तथा दोषोऽस्ति कश्चन ॥५॥
अनु०-हे भगवन् ! आपे कही छे ते रीते जो वस्तुनी नित्यानित्यस्वरूपता होय, तोज कोई पण प्रकारनो दोष आवतो नथी. (५)
पूर्वोक्तमेव निगमयन्त आहुः
अव०-यदा यदा तु पुनः स्तम्भकुम्भाम्भोरुहादेवस्तुनो नित्यानित्यत्वरूपता कथञ्चिन्नित्यकथञ्चिदनित्यस्वभावता भवेत् , तदा कश्चन दोषो विरोधादि व नास्त्येव हे भगवन् ! यथा त्वमात्थ कथितवांस्तथैव, न दोष इत्यर्थः ।
वि०-यदा पुनर्वस्तुनो विवादास्पदीभूतस्य स्तम्भकुम्भरम्भाम्भोरुहादेर्नित्यानित्यरूपता भवेत् , तदा नैव दोषः कालुष्यलक्ष्यता काचन । ननु नित्यानित्यत्वं को वै न मन्यते । परमाणुरूपतया
१ -'लक्षता' इति प्रत्यन्तरे । २ - सामान्यविशेषात्मकस्य वस्तुनः प्रमाणगोचरतया मामांचकैरभ्युपगमात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org