________________
। श्रीवीतरागस्तोत्रे सोऽयं पूर्वापरस्वभावपरिहारावाप्तिलक्षणार्थक्रियां कौटस्थ्येऽपि ब्रुवाणः कथमनुन्मत्तः स्यात् ।। तत एकान्तनित्यत्वे प्रेक्षादक्षैरर्थक्रियासमर्थत्वं यथा यथा विचार्यते तथा तथा विशीर्यते । अथ बौद्धः प्राह-नित्यैकान्ते पूर्वोक्तप्रकारेणार्थक्रियाकारित्वस्यासम्भवादस्मस्पक्षः एव क्षणीकैकान्तलक्षणःश्रेयान् , तदपि न; तत्रापि तस्यासिद्धेः। तथाहि-नास्ति क्षणिकैकान्तोऽनर्थक्रियाकारित्वात् , यद्यदनर्थक्रियाकारि तत्तन्नास्तीत्युपलब्धम् , यथा ब्रह्माद्वैतम् , अनर्थक्रियाकारी च क्षणिकैकान्तः, तस्मान्नास्तीति निश्चीयते । न चानर्थक्रियाकारित्वादित्ययं हेतुरसिद्धः, तत्क्षणिकैकान्ते (तस्य क्षणिकैकान्ते) विद्यमानत्वात् , तथाहि सर्वथा क्षणिकः पदार्थः स्वामर्थक्रियां क्रमेण करोति, यौगपद्येन, उभयरूपेण वा ?; न तावद्देशक्रमेण कालकमेण वा स्वं कार्य कर्तुमलम् , तस्याक्रमत्वात् , न चाक्रमस्यापि क्रमेण कार्यकारित्वं घटते, सर्वथा नित्यवत् । नापि यौगपद्येन, एकस्मिन्नेव क्षणे सकलकार्यकदम्बकस्य निष्पादितत्वात् द्वितीयादिक्षणे क्षणिकत्वेन तस्यासत्त्वात्सकलशून्यता स्यात्, न चैवम् । किञ्च-यदि योगपद्येन कार्य करोति तर्हि क्रमेण कार्योपलम्भो न स्यात् , अस्ति च कुम्भकार एकस्मिन् क्षणे घटं कुर्वन्नुपलभ्यते, द्वितीयादौ च घट्यादिकमिति । नाप्युभयरूपेण, उभयपक्षनिक्षिप्तदोषानुषङ्गात् । करोतु वा यथा कथञ्चित् , किं विद्यमानोऽविद्यमान उभयरूपो वा करोति ?, न तावद्विद्यमानः; क्षणभङ्गभङ्गप्रसङ्गात् । किञ्च-यदि सन्नेव क्षणिकः पदार्थः कार्य करोति तर्हि त्रैलोक्यमेकक्षणवर्ति स्यात्, करणकाल एव सर्वस्योत्तरोत्तरक्षणसन्तानस्य सत्त्वात् , तेषां
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org