________________
अष्टमः प्रकाशः]
कार्यस्य अन्यस्य वा अयनादिलक्षणस्य कर्तृत्वमिष्यते, तस्य प्रधानहेतुकत्वात् । न च चेतना पुसोऽर्थान्तरमेव, तस्य चेतनालक्षणत्वात् । चैतन्यं स्वरूपं पुरुषस्य इति वचनात् , न चानित्या चेतना पुरुषस्वभावस्तन्नित्यत्ववत् (१), सा नित्या तस्याः प्रधानस्वभावत्वेन पुरुषकल्पनावैफल्यप्रसङ्गात् तदनित्यत्वप्रसङ्गाच्च सुखादिवत् (१) । न च नित्यायाश्चेतनायाः परस्यार्थक्रियात्वं विरुध्यते, धात्वर्थरूपायाः क्रियायाः प्रतिघाताभावात् , सत्तावत् । ततोऽर्थक्रियास्वभावत्वादात्मनो वस्तुत्वमेव । न ह्यर्थक्रियाकारणस्यैव वस्तुत्वम् , अर्थक्रियायाः स्वयमवस्तुत्वापत्तेः, तत्रार्थक्रियान्तराभावात् , अन्यथाऽनवस्थाप्रसङ्गात् । स्वतोऽर्थक्रियाया वस्तुत्वस्वभावत्वे पुरुषस्यापि स्वतः सततमर्थक्रियास्वभावलान्नित्यं वस्तुत्वमस्तु, क्रियाविरहेऽपि नित्यकारकत्वस्यापि घटनादिति साङ्ख्यः कश्चित् । सोऽपि न दक्षः, प्रमाणविरोधात् । अध्यक्षतो लिङ्गजादेर्वा नित्यार्थक्रियायाः कदाचिदपरिवेदनात् । स्वसंवेदनमेव नित्यचेतनार्थक्रियां परिच्छिनत्ति, इति चेत् ?, न; तथा तबुद्ध्याऽनध्यवसायात् । न खलु बुद्ध्याऽनध्यवसितां चेतनां पुरुषश्चेतयते, बुद्धिपरिकल्पनावैयर्थ्यप्रसङ्गात् । सर्वस्य शब्दादेविषयस्य बुद्ध्यध्यवसितस्यैव पुंसां संवेद्यत्वसिद्धेः, स्यान्मतम् !; न चेतना नाम विषयभूताऽर्थान्तरमात्मनोऽस्ति या बुद्ध्याऽध्यवसीयते, तस्यास्तत्स्वरूपत्वात् , स्वतःप्रकाशनाचेति, तदप्यनुपपन्नम् , तदर्थक्रियाकारित्वायोगात्, न ह्यथंक्रियावत् स्वरूपमेव सदवस्थाप्यर्थक्रिया प्रसिद्धाऽस्ति (?) । तस्याः पूर्वाकारपरित्यागेनोत्तराकारोपादानेन च तस्मिन् परत्र च प्रतीतेः ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org