________________
[ श्रीवीतगगस्तोत्रे सहकारिभ्योऽन्यतो वा भवेत् , स चेत्तस्मात्तदनन्तरम् , तदा तस्यानित्यत्वम् । अर्थान्तरपक्षस्य कथञ्चित्पक्षस्य च पूर्वमेव निरा. कृतत्वात् । किञ्च-सहकारिणः किं नित्या अभ्युपगम्यन्ते, अनित्या, नित्यानित्यरूपा वा ? । प्रथमे विकल्पे नित्यवत् प्रसङ्गः, द्वितीये काचपिच्यम् , तृतीयस्तु न श्रेयान् , अनभ्युपगमात् , तन्न नित्यम्य पदार्थस्य देशक्रमेण कार्यकारित्वं घटते । नापि कालक्रमेण, कालक्रमस्यापि नित्यैकस्वभावस्य भावस्यासम्भवात् । स ह्येकदा काले कार्यं कृत्वा पुनः कालान्तरे कार्यकरणमुच्यते । न च नित्यैकस्वभावस्य भावस्येत्थम्भूतः कालक्रमो बटते, सर्वथा नित्यत्वव्याघातप्रस. नादिति कालक्रमेणापि न कार्यकारित्वं घटते। नापि यौगपद्येन, यौमपद्यं यकस्मिन् क्षणे कालान्तरभाविसकलकार्यकारित्वम्, तत्र च क्रमेण कार्योपलम्भो न स्यात् , अस्ति च कार्योपलम्भः, तथाहिअन्तस्तावदात्मनः स्रक्चन्दनवनितादिसामग्रीसन्निपाते सुखलक्षणं कार्यमुपलभ्यते, अहिकण्टकविधादिसन्निधौ तु दुःखम् , न पुनर्य. स्मिन्नेव क्षणे सौख्यं तस्मिन्नेव क्षणे दुःखम् , तथोपलम्भाभावात् , उभयसामग्र्यसन्निधाने त्वौदासीन्यम् । तथा बहिरपि मृतपिण्डात् कुम्भकारव्यापारचक्रचीवरादिसामग्रीसन्निपाते घटस्ततो घटी ततः कालान्तरे करकादिकमिति, न पुनरेकस्मिन्नेव क्षणे सर्वम् , तथोपलम्भाभावात् । किञ्च-यदि यौगपद्येन कार्य करोति तडॅ. कस्मिन्नेव समये सकलस्य कार्यकदम्बकस्य निष्पादितत्वात् द्विती. यादिक्षणे कार्याकर्तृत्वेन अवस्तुत्वं स्यात् । ननु च पुरुषस्य चेतनैवार्थक्रिया, न पुनः तद्वयतिरिक्तस्य प्रमाणप्रमितिलक्षणस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org