________________
अष्टमः प्रकाश: ]
१०५ कार्यस्योपकारः क्रियमाणोऽव्यतिरिक्तो व्यतिरिक्तो वा ?, अव्यतिरेके नित्यत्वमपि(नित्यस्यापि) कार्यत्वम् ; व्यतिरेके सम्बन्धासिद्धिः । अथोपकारेणाप्युपकारान्तरं विधीयते, तर्हि तेनाऽप्यपरं तेनाऽप्यपरमित्यनवस्था। नाप्यदृष्टलक्षणः, तस्य सम्बन्धरूपताऽभावात् । तन्न व्यतिरेकपक्षेऽपि घटते । कथञ्चित्पक्षोऽपि न श्रेयान् , उभयपक्षनिक्षिप्तदोषानुषङ्गात् । तन्नोपकारकत्वेन सहकारिणः स्युः, नाप्येकार्थकारित्वेन, न खलु स्वरूपेणाकारकं पररूपेण कारकम् , स्वयमकारकस्य पररूपेणाप्यकारकत्वात् , न हि गोधूमबीजं स्वयं यवाङ्करस्याकारकं यवसहितमपि तस्य कारकं नाम । किञ्च-यदि सहकारिभिनित्यस्य न किञ्चिस्क्रियते, तर्हि कथं तेषामपेक्षा, अनु. पकारिणामपेक्षाऽयोगात् । ननु न नित्यस्य सहकारिभिः किञ्चिस्क्रियते, तेन वा तेषाम् , किन्तु सह मिलित्वा कार्यमेव विधीयते । ' सह कुर्वन्ति ' सहकारिण इति व्युत्पत्तेरिति चेत् ?, उच्यतेव्यस्तानां तेषां कार्यकारणसामर्थ्यमस्ति न वा ?, यद्यस्ति, समुदिता एव कुर्वन्तीति नियमो न लभ्यते; व्यस्ता अपि कुर्वन्ति । अथ नास्ति कृतस्तद्भवेत् , कारणाभावात् ; अन्यथाऽनित्यत्वप्रसझात् । ननु न नित्यस्य पदार्थस्य कुतश्चित्कार्यकरणसामर्थ्यमुप. जायते, येन तस्यानित्यत्वमापद्यते, किन्तु तस्येत्थम्भूतस्वभावो येन सहकारिसहित एव कार्य करोति, नान्यदिति चेत् ?, स स्वभावस्तस्य भावस्य निर्हेतुकः सहेतुको वा ?; प्रथमपक्षे-नियते देशे नियते काले च तस्य सद्भावो न स्यात् , न खल्वाकस्मिकस्य तथासद्भावः; कारणाधीनत्वात्तथाभावस्य । अथ सहेतुकः, स यदि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org